पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] एकविंशं प्रकरणम् ।

  • २१ प्रकृतिकर्मप्रकरणम् *

१९३ प्रकृतिव्यसनं यत् स्यात् तत् प्रशाम्य समुत्पतेत् । अनयापनयाभ्यां तज्जायते दैवतोऽपि च ॥ १८ ॥ यस्मात् तद् व्यस्यति श्रेयस्तस्माद् व्यसनमुच्यते ।

  • व्यसत्यधो वा व्रजति तस्मात् तत् परिवर्जयेत् ॥ १९॥

एवं दर्शितोत्साहेन विजिगीषुणा व्यसनी परो यातव्यः । यदा तु स्वयं प्रकृतिव्यसनापन्नः स्यात्, तदैवोत्साहमेवास्थाय तत् प्रतिकृत्य यायात् । अन्यथा प्रकृतयो व्यसनापन्ना न स्वकर्माणि कुर्युरिति प्रकृतिकर्म प्रकृतिव्यसनानि चेति प्रकरणद्वयमुच्यते । तत्र व्यसनानां कारणनिर्वचनभेदप्रतीकारान् श्लोकपञ्चकेनाह - प्रकृतिव्यसनमित्यादि । समुत्पतेद् यायात् । कुतश्चैतत् स्यादित्याह - अनयापनयाभ्यामित्यादि । दैवं मानुषं च कर्म लोकं पालयति । तत्र दैवमनयो नाम, मानुषमपनयो नाम । यत् पूर्वजन्मकृतं कर्म तद् दैवम् । तस्मिन्निष्टेन फलेन योगोऽयः, अनिष्टेनानयः । यदिह क्रियते तन्मानुषम् । अस्मिन् योगक्षेम- निष्पत्तिर्नयः, विपत्तिरपनयः । तत्रानयापनयाभ्यां संयुक्ताभ्यां प्रकृतीनां व्यसन- मुत्पद्यते । दैवतोऽपि चेति । अपिशब्दान्मानुषतोऽपि । इदमुक्तं भवति - दैवाद् वा केवलादनयलक्षणाद्, मानुषाद् वा केवलादपनयलक्षणादिति ॥ १८ ॥ । कथं तत उत्पन्नं व्यसनमित्युच्यत इत्याह- यस्मादित्यादि । व्यस्यति क्षिपति श्रेयः अभिमतमर्थमिति व्यसनम् । अधो वा व्रजतीति ' अस गतिदीप्त्यादानेष्वित्यस्य धातोः प्रयोगं दर्शयति । विशब्दोऽधः शब्दार्थे नाशे वा । अधो नाशं वा असति व्रजत्यनेनेति व्यसनम् ॥ १९ ॥ १. 'वा' मूलकोशेषु पाठः २. 'द् व्यस्यति हि श्रेयस्तत् स्याद् व्य' ख.ग. पाठः ३. 'या पयति' ङ. पाठः. ४. 'एकतोऽपि चेति । एकैकस्मादपि । इ' ङ. पाठः ५. 'अपथेन (?) वा' क. ख. ग. घ. पाठ:. ६. 'विनाशं व्यसनं व्रज' क.ख.ग. घ. पाठः.

  • व्याख्यानुसारादेवं पाठो निवेशितः । मूलकोशेषु तु 'व्यसन्यधोऽधो व्रजति' इत्येव दृश्यते.