पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१९२ [चतुर्दश: कामन्दकीय नीतिसारे हेलाकृष्टस्फुरत्तीक्ष्णखङ्गाशुपरिपिञ्जरैः । श्रीमत्करिकराकारैराह्रियन्ते भुजैः श्रियः ॥ १४ ॥ उच्चैरुच्चैस्तरामिच्छन् पदान्यायच्छते महान् । नीचो नीचैस्तरां याति निपातभयशङ्कया ॥ १५ ॥ प्रमाणाम्यधिकस्यापि महत् सत्त्वमधिष्ठितः । करोत्येव पदं मूर्ध्नि केसरी मत्तहस्तिनः ॥ १६ ॥ गतभीभीतिजननं भोगं भोगीव दर्शयेत् । यथाबलं च कुर्वीत रिपोर्दण्डनिपातनम् ॥ १७ ॥ ( इत्युत्साहप्रशंसा नाम विंशं प्रकरणम् ) णममर्षं दर्शयति । प्रयत्नप्रेर्यमाणेनेति । यदा चेतसि संरम्भात्मकः प्रयत्नविशेष उत्पद्यते, तदा तेन प्रेर्यमाणं चित्तं हस्तिस्थानीयं रूढवैरिमानुत्खातुं प्रवर्तते ॥ १३ ॥ हेलेत्यादिना शीघ्रतां दर्शयति । हेलया क्षिप्रकारितयाकृष्टाः स्फुरन्तस्तीक्ष्णा ये खड्गाः, तेषामंशुभिः परिपिञ्जरैर्भुजैरिति सम्बन्धः ॥ १४ ॥ इदानीमुत्साहसंवर्धितस्य सत्त्वस्य माहात्म्यं दर्शयति - उच्चैरित्यादिना । उच्चैः पदान्यायच्छत इति सम्बन्धः । महान् सत्त्वाधिकः केसरीव । नीचः सत्त्व- हीनः करीव ॥ १५ ॥ तदेव स्फुटयन्नाह - प्रमाणाभ्यधिकस्यापीति । महत् सत्त्वमधिष्ठितः महति सत्त्वे स्थित इत्यर्थः ॥ १६ ॥ गतभीरित्यादिना प्रकरणार्थमुपसंहरति । गतभीरिति सत्त्वाधिष्ठानं दर्श- यति । भोगं शौर्याद्याभोगम् । यथाबलमिति बुद्धिव्यापारं सूचयति । दण्डनिपातनं शस्त्रव्यापारणम् ॥ १७ ॥ ( इत्युत्साहप्रशंसा नाम विंशं प्रकरणम् ) १. 'दानेन' ङ. पाठः.