पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] विंशं प्रकरणम् । उत्थानेनैधयेत् सत्त्वमिन्धनेनेव पावकम् । श्रियो हि सततोत्थायी दुर्बलोऽपि समश्नुते ॥ ९ ॥ भोक्तुं पुरुषकारेण दुष्टां स्त्रियमिव श्रियम् । व्यवसायं सदैवेच्छेन्न हि क्लीबवदाचरेत् ॥ १० ॥ वैशे श्रियं सदोत्थायी सैंहीं वृत्तिं समाश्रितः । कचग्रहेण कुर्वीत दुर्वृत्तामिव योषितम् ॥ ११ ॥ किरीटमणिचित्रेषु मूर्धसु त्राणधारिषु । नाकृत्वा विद्विषां पादं पुरुषो भद्रमनुते ॥ १२ ॥ प्रयत्नप्रेर्यमाणेन महता चित्तहस्तिना । रूढवैरिद्रुमोत्खातमकृत्वेह कुतः सुखम् ॥ १३ ॥ १९१ उत्थानेनैधयेत् सत्त्वमिति उत्साहस्यैव प्राधान्यं दर्शयति । सततमुत्साहेन संवर्धयेत् सत्त्वम्, अन्यथा तदागन्तुकत्वादपैत्यपि । ततश्चाध्यवसायाभावान्नासौ फलमश्नुते । सततोत्थायितायां तु नायं दोष इत्याह – श्रियो हीत्यादि । दुर्बलोऽपि कोशदण्डहीनोऽपि ॥ ९ ॥ शौर्यममर्षः शैघ्रयं दाक्ष्यं चेत्युत्साहगुणाश्चत्वारः । तत्र ' श्रीभिरलसः परिभूयत' इत्यनेन दाक्ष्यमुदाहृतम् । शेषानपि श्लोकपञ्चकेन दर्शयति - भोक्तुमित्यादि । पुरुषकारेण शौर्येण व्यवसायमिच्छेद्, अन्यथा कथं पुरुषकारं कुर्यात् । तस्योत्साहगुणत्वात् ॥ १० ॥ व श्रियं कुर्वीतेति सम्बन्धः । सैंहीं वृत्तिं शौर्यलक्षणाम् ॥ ११ ॥ मूर्धसु विद्विषामिति सम्बन्धः । त्राणधारिषु शिरस्त्राणप्रधानेषु । अपकारिणां शिरस्सु पदमकृत्वा न भद्रमश्नुते ॥ १२ ॥ तथा रूढवैरिद्रुमोत्खातमकृत्वा कुतः सुखमिति परिभवासहिष्णुतालक्ष- १. "यं क. पाठः. ४. 'उत्थानस्यै' ड. पाठः. २. 'श्रियं वश्यां स' क. पाठः. ३. 'सूत्तालरश्मिषु' क. पाठः. ५. 'यिनां तु' क.ख. ग. घ. पाठः.