पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१९० कामन्दकीय नीतिसारे धीमानुत्साहसम्पन्नः व्यवसायसमन्वितः । भाजनं परमं श्रीणामपामिव महार्णवः ॥ ४ ॥ नलिनीवाम्बुसम्पत्त्या बुद्ध्या श्रीः परिपाल्यते । उत्थानाध्यवसायाभ्यां विस्तारमुपनीयते ॥ ५ ॥ लक्ष्मीरुत्साहसम्पन्नाद् बुद्धिशुद्धं प्रसर्पतः । नापैति कायाच्छायेव विस्तारं चोपगच्छति ॥ ६ ॥ वीतव्यसनमश्रान्तं महोत्साहं महामतिम् । प्रविशन्ति महालक्ष्म्यः सरित्पतिमिवापगाः ॥ ७ ॥ सत्त्वबुद्ध्युपपन्नोऽपि व्यसनग्रस्तमानसः । श्रीभिः षण्ड इव स्त्रीभिरलसः परिभूयते ॥ ८ ॥ [ चतुर्दशः दि । बुद्धिप्रयत्नोपगतादिति । यः सत्त्वाधिष्ठिताया बुद्धेर्व्यापारः तद्युक्तादित्यर्थः । व्यवसायादिति । समुत्थानमुत्साहो व्यवसाय इत्येकार्थाः । तस्मात् त्रितय-योगादेव फलम् ॥ ३ ॥ तदेव स्फुटयन्नाह - धीमानुत्साहसम्पन्नो व्यवसायसमन्वित इति । तत्र बुद्धेः कार्यालोचनम्, उत्साहाद् योगक्षेमसाधनं, सत्त्वात् फलाध्यवसानमिति ॥ ४ ॥ तमेव व्यापारं दर्शयति--- नलिनीवेत्यादिना । बुद्ध्या श्रीः परिपाल्यते, तया रक्षणोपायस्य चिन्त्यमानत्वात् । उत्थानाध्यवसायाभ्यां विस्तारमुपनीयते, अनुद्युक्तस्यानध्यवस्यतो भूतिविस्तारासम्भवात् ॥ ५ ॥ तथा त्रितययोगाद् विभूतेस्वद्भावभाविता प्रतीपप्रार्थना चेति श्लोकद्वयेन दर्शयति – लक्ष्मीरित्यादि । बुद्धिशुद्धमिति क्रियाविशेषणम् । प्रसर्पतः लक्ष्मीमध्यवस्यत इत्यर्थः । नापैतिच्छायेवेति तद्भावभावितां दर्शयति ॥ ६ ॥ वीतव्यसनं त्रितययोगादेव । अश्रान्तम् असन्तुष्टं महासत्त्वम् । महामतिं सूक्ष्मबुद्धिम् । प्रविशन्ति लक्ष्म्य इति । ता एव प्रतीपं प्रार्थयन्त इत्यर्थः ॥ ७ ॥ त्रयाणामप्युत्साहः प्रधानं, तस्य साधकतमत्वादित्याह - सत्त्वबुद्ध्युपपन्नोऽपीत्यादि । व्यसनग्रस्तमानस उत्साहवैकल्यादेव ॥ ८ ॥ १. 'प्रभुशक्त्या स' मूलकोशपाठः २. 'र्थः । स' क. ख. ग. घ. पाठः. ङ. पाठः. + एवन्तु 'प्रविशन्ति स्वयं लक्ष्म्यः' इति व्याख्यातृपाठः स्यात्. ३. 'वहारस'