पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ चतुर्दशः सर्गः ।

  • २० उत्साहप्रशंसाप्रकरणम् *

अन्वहं चरचर्याभिर्विफले दूतचेष्टिते । यायाद्यथोक्तयानस्तु सूक्ष्मबुद्धिपुरस्सरः ॥ १ ॥ सूक्ष्मा सत्त्वप्रयत्नाभ्यां दृढं बुद्धिरधिष्ठिता । प्रसूते हि फलं श्रीमदरणीव हुताशनम् ॥ २ ॥ धातोश्चामीकरमिव सर्पिनिर्मथनादिव । बुद्धिप्रयत्नोपगताद् व्यवसायाद् ध्रुवं फलम् ॥ ३ ॥ सन्धिविग्रहार्थं प्रहितेऽपि दूते यथाभिहिततापसव्यञ्जनादिप्रणिधान प्रकारेण च यथाप्रस्तुतकार्यासिद्धौ स्वयमेव यायादित्याह - - अन्वहमित्यादि । चरचर्या • भिरिति चारप्रचारैः सह । विफले इदमुक्तं भवति - सन्धाने यो मन्त्रिव्यापारः, - - चाराणां च कृत्यपक्षोपजापादौ येऽन्वहं प्रचाराः, तेषु विफलेषु, यदि वा चरैरेव कृतोपजापत्वाद् विफलीकृते दूतचेष्टिते । यथोक्तयानः ' उत्कृष्टबलवीर्यस्य .... गुणा- नुरक्तप्रकृतेर्यात्रा यानम् ' (स. ११. लो. १.) इत्यनेन शक्तिदेशकालबलान्वितो यायादित्यर्थः । सूक्ष्मबुद्धिपुरस्सरः सूक्ष्मया बुद्ध्या प्रानिरूपिताभ्युच्चयत्वात् तत्पुरस्सरः ॥ १ ॥ अभ्युच्चयश्च व्यसनिनो न सम्भवतीति तत्प्रतीकारार्थं तावत् सर्गद्वयेन षाड्गुण्यशेषभूता व्यसनचिन्ता क्रियते । तत्रास्मिन् सर्गे प्रकरणत्रयम् उत्साहप्रशंसा प्रकृतिकर्म प्रकृतिव्यसनानि च । तत्रोत्साहपूर्वकत्वाद् यानादिचिन्ताया इति तत्प्रशंसोच्यते षोडशभिः श्लोकैः । तत्र सूक्ष्मापि बुद्धिः सत्त्वानघिष्ठिता निष्प्रयत्ना चाफलेत्याह -- सूक्ष्मेत्यादि । सत्त्वप्रयत्नाभ्यामिति । सत्त्वं व्यसनेऽभ्युदये चाविकारकरम् अध्यवसायकरं वा, प्रयत्नो बुद्धेर्व्यापार ऊहापोहलक्षणः आभ्यां दृढमत्यर्थम् अधिष्ठिता सूक्ष्मा बुद्धिः फलं प्रसूते । श्रीमद् उत्कृष्टम् ॥ २ ॥ उत्साहोऽपि बुद्धिप्रयत्नपूर्वकः क्रियमाणः फलवानित्याह - धातोरित्या