पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१८८ कामन्दकीय नीतिसारे [त्रयोदशः समापिबन्तो जगतां मतानि जलानि भूमेरिव सूर्यपादाः । अनेकशिल्पाध्ययनप्रवीणा- श्वाराश्चरेयुर्बहुलिङ्गिरूपाः ॥ ५० ॥ येन प्रकारेण परानुपेयात् परावरज्ञः स्वसमृद्धिहेतोः । तमात्मनि स्वस्थमतिश्च तज्ज्ञैः प्रयुज्यमानं च परेण विद्यात् ॥ ५१ ॥ (इति दूतचरविकल्पो नामैकोनविंशं प्रकरणम् ) इति कामन्दकीये नीतिसारे राजोपदेशे दूतप्रचारो दूतचरविकल्पश्च त्रयोदशः सर्गः । ति । पूर्वसङ्केतितवीणादिवाद्यसंज्ञाभिः । म्लेच्छितैः अव्यक्तवचनैः । लेख्यैर्गूढैः । आकारैः मुखनयनादिविकारैः । इङ्गितैश्चेष्टितैः। सञ्चारयेयुः परस्परमिति सम्बन्धः । अव्यग्राः सावधानाः ॥ ४९ ॥ सङ्क्षेपेण च व्यवहारमाह-- अनेकशिल्पाध्ययनप्रवीणाः विश्वासार्थं बहुविधलिङ्गिरूपाः || ५० ॥ मुण्डजटिलादिरूपेण यथा विजिगीषुः सञ्चारान् प्रणिधत्ते, तथा परोऽपीति तत्प्रतिविधानं श्लोकेनाह - येन प्रकारणेति । तापसव्यञ्जनादिप्रणिधानप्रकारेण । परावरज्ञः परात्मवित् । * तत्प्रकारेण स्वस्थमतिः सावधानः । तज्ज्ञैः तत्प्रकारज्ञैः स्वचरैर्विद्यादिति सम्बन्धः ॥ ५१ ॥ (इति दूतचरविकल्पो नामैकोनविंशं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीयनीतिसारपञ्चिकायां जयमङ्गलायां दूतप्रचारो दूतचरविकल्पश्च त्रयोदशः सर्गः । १. क. ग. पाठ:.

  • 'तं प्रकारम्' इति स्यात्.