पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] एकोनविंशं प्रकरणम् । जडमूकान्धबधिरच्छद्मानः षण्डकास्तथा । किरातवामनाः कुब्जास्तद्विधा ये च कारवः ॥ ४४ ॥ भिक्षुक्यश्वारणा दास्यो मालाकाराः कलाविदः । अन्तःपुरगतां वार्ता निर्हरेयुरलक्षिताः ॥ ४५ ॥ छत्रव्यजनभृङ्गारयानवाहनधारिणः । महामात्रा बहिर्वार्ता विद्युरन्ये च तद्विधाः ॥ ४६ ॥ अन्नव्यञ्जनकर्तारः कल्पकाः स्नापकास्तथा । प्रसाधका भोजकाश्च गात्रसंवाहका अपि ॥ ४७ ॥ जलताम्बूलकुसुमगन्धभूषणदायकाः । कर्तव्या रसदा ह्येते ये चान्येऽभ्याशवर्तिनः ॥ ४८ ॥ संज्ञाभिर्लेच्छितैर्लेख्यैराकारैरिङ्गितैरपि । सञ्चारयेयुरव्यग्राश्चाराश्चर्या परस्परम् ॥ ४९ ॥ - १८७ परपक्षे प्रणिहितानां व्यापारमाह - जडेत्यादि । जडादिच्छद्मानः पाप- ण्डकादयश्चान्तःपुरप्रवेशानर्हा अविश्वास्याश्च भवन्ति । तद्विधा ये च कारवो वा- मनकुब्जादिरूपा वर्धक्यादयः ॥ ४४ ॥ चारणा नटनर्त्तकादयः । कलाविदश्चित्रादिकुशलाः, ये छत्रादिधारणेना- न्तःपुरप्रवेशार्हाः ॥ ४५ ॥ महामात्राः हस्तिशिक्षानियुक्ताः । अन्ये च तद्विधाः रथारोहाश्वारोहा- दयः महाश्वपतिकादयः ॥ ४६ ॥ अन्नव्यञ्जनकर्त्तारः भक्तसूपकादिरन्धकाः । कल्पकाः नापिताः । गात्र- संवाहकाः मर्दकाः ॥ ४७ ॥ दायकशब्दो जलादिभिः प्रत्येकं योज्यः । अभ्याशवर्त्तिनः समीपव- र्त्तिनः ॥ ४८ ॥ अन्तःपुरगतानां बहिरनिष्कासे प्रसारसञ्चारणोपायमाह - संज्ञाभिरि- १. 'का' क. पाठः. २. 'र्तामाहरेयुश्च ल' क. पाठः. ३. 'र: सूदा भक्तरन्धकाः' क. ख. ग. घ. पाठः.