पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१८६ कामन्दकीयनीतिसारे [त्रयोदशः कारणाकारणक्रुद्धान् बुध्येत स्वपरिग्रहे । पापानकारणक्रुद्धान् तूष्णींदण्डेन साधयेत् ॥ ४० ॥ ये तु कारणतः क्रुद्धास्तान् वशीकृत्य संविशेत् । शमयेद् दानमानाभ्यां छिद्रमण्वप्यरेमुखम् ॥ ४१ ॥ कण्टकान् मुखभङ्गेन राज्यस्य प्रशमं नयेत् । उद्युक्तः सामदानाभ्यां छिद्रं च परिपूरयेत् ॥ ४२ ॥ अणुनापि प्रविश्यारिश्छिद्रेण बलवत्तरम् । निःशेषं मार्जयेद् राज्यं यानपात्रमिवोदकम् ॥ ४३ ॥ तत्र स्वपक्षे विजिगीषोश्वरैः सह व्यापारमाह- 'कारणाकारणक्रुद्धा- निति । विजिगीषेोर्दोषेण वा क्रुद्धान् बुध्येत । सत्रिभिरिति शेषः । स्वपरिग्रहे स्वपक्षे । पापानिति दुष्टान् अकारणक्रुद्धान् तूष्णींदण्डेन साधयेत् तीक्ष्णैरुपांशु हन्यात् । अपापांस्तु कारणक्रुद्धान् कारणनिवृत्त्या परिक्लेशार्थहरणाभ्यां यथायोगं साधयेदित्यर्थोक्तम् ॥ ४० ॥ तान् वशीकृत्य वक्ष्यमाणप्रकारेण संविशेत् सुप्यात्, निश्चिन्तः स्यादित्यर्थः । छिद्रं प्रकृतिदोषाः क्रोधलोभभयमानाख्याः । तच्चारेर्मुखं द्वारं, तेन तस्य प्रवेशात् । तदल्पमप्युपेक्षितमनर्थाय भवति । तत्र क्रुद्धं मानिनं च दानमानाभ्यां द्वियोगेन शमयेत् । शेषयोः शमनं वक्ष्यति ॥ ४१ ॥ कण्टकान् राज्यस्येति सम्बन्धः । मुखभङ्गेन प्रधानवधेन, हते मुख्ये शेषाणां प्रशमनात् । छिद्रं च परिपूरयेदिति । भीतं लुब्धं च सामदानाभ्यां द्वियो- गेन परितोषयेत् ॥ ४२ ॥ • बलवत्तरं ज्यायांसम् । मार्जयेत् नाशयेत् ॥ ४३ ॥ १. 'तीक्ष्णद' ख. ग. पाठः, २. 'द्राणि प' मूलकोशपाठः. ३. 'रः' ख. ग. पाठः. ४. 'आश्रित्येति' ङ. पाठः.