पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] एकोनविंशं प्रकरणम् । स्वपक्षे परपक्षे च यावान् कश्चिद् विवक्षितः । सर्वस्मिंस्तत्र सञ्चारास्तिष्ठेयुश्चित्तवेदिनः ॥ ३७ ॥ तीक्ष्णः प्रव्रजिता चैव सत्री रसद एव च । एते प्रधानं सञ्चाराः सर्वे नान्योन्यवेदिनः ॥ ३८ ॥ स्वपक्षे परपक्षे वा यो न वेद चिकीर्षितम् । जाग्रत्स्वरिषु सुप्तोऽसौ न भूयः प्रतिबुध्यते ॥ ३९ ॥ १८५ स्वपक्षे परपक्षे च स्वविषये परविषये च । यावान् कश्चिद् विवक्षितः कार्ययोगितया । तत्र कार्ययोगीन्यष्टादश तीर्थानि सम्भवन्ति । तद्यथा 'मन्त्रिपुरो- हितसेनापतियुवराजदौवारिकान्तवैशिकप्रशास्तृसमाहर्तृसन्निधातृप्रदेष्टृनायक पौरव्या- वहारिकपरिषदध्यक्षदण्डदुर्गान्तपालाटविकाः' । तत्र सर्वस्मिंस्तिष्ठेयुः ॥ १७ ॥ के पुनस्ते सञ्चारा इत्याह- तीक्ष्ण इत्यादि । यः शूरस्त्यक्तात्मा निस्त्रिंशः स तीक्ष्णः । तस्य प्राधान्येन शस्त्रव्यापारे नियोगः । प्रव्रजिता गृहीतलिङ्गा भि क्षुकी । सत्रं छद्मचरितं तेनात्मच्छादनाद् । वक्ष्यति च 'सत्रं छद्म प्रकीर्तितम् ' (स. १९. लो. ६८.) इति । तदस्यास्तीति सत्री । स च स्त्रीपुंसलक्षणाद्यभिज्ञापदेश- चारितया परान् विश्वासयति । रसदो विषस्य दाता । एते प्रधानं सञ्चारयन्तीति सञ्चाराः। सर्वे नान्योन्यवेदिन इति संस्थाः संस्थान्तरवेदिनः सञ्चाराश्च सञ्चारा- न्तरवेदिनो न स्युः संवादपरिहारार्थम् । एकस्मिन् वा परिज्ञाते मा भूत् सर्वग्र- हणमिति ॥ ३८ ॥ यो न वेद चिकीर्षितं तीर्थमणिहितैः सञ्चारैः । जाग्रत्सु विजिगीषो- रिछद्रान्वेषणतत्परेषु । सुप्तो निश्चिन्तः । न प्रतिबुध्यते न पुनश्चेष्टते, विनाशाघ्रा- तत्वात् ॥ ३९ ॥ १. 'शस्त्री ' मूलकोशपाठः. २. ' वेत्ति चि' मूलकोशपाठः ३. ' द्म ते' ङ. पाठः. ५. 'संगा ? शङ्काप' क. ४. 'ति संज्ञान्तरवेदि सः सञ्चाराः स्वसञ्चा' क. ख. ग. घः पाठः. ख. ग. घ. पाठ:. S' मा भूदिति सर्वग्रहणम्' इति पाठेऽर्थः समञ्जसः.