पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

૮૪ कामन्दकीय नीतिसारे चरेण प्रचरेत् प्राज्ञः सूत्रेणत्विगिवाध्वरे । [त्रयोदशः दूते सन्धानमायत्तं चरे चर्या प्रतिष्ठिता ॥ ३४ ॥ संस्थानवत्यः संस्थाच कार्याः कार्यसमृद्धये । तिष्ठेयुर्यासु सञ्चाराः परचर्योपवेदिनः ॥ ३५ ॥ वणिक् कृषीवलो लिङ्गी भिक्षुको ऽध्यापकस्तथा । संस्थाः स्युश्वारसंस्थित्यै दत्तदायाः सुखाशयाः ॥ ३६ ॥ सूत्रेणेति कात्यायनीयादियज्ञसूत्रेण । दूते सन्धानमायत्तं, प्राधान्येन तस्य सन्धिविग्रहनियुक्तत्वात् । इतरदानुषङ्गिकं कर्म वेदितव्यम् । चरे चर्या प्रतिष्ठिता अप्रकाशे चरे परप्रचारज्ञानं निश्चितम् ॥ ३४ ॥ E अप्रकाशाश्चराः संस्थानामानश्च सन्तीत्याह संस्थानवत्य इत्यादि । संस्थानं वेषश्चरितं च, तदुपेताः संस्थाश्चराः कार्याः । सञ्चाराः वक्ष्य- माणाः ॥ ३५ ॥ 6 " किंसंस्थानाः संस्थाः स्युरित्याह - वणिगित्यादि । वणिग् वैदेहक इति द्वितीयनामा | कृषीवलो गृहपतिरिति द्वितीयनामा । लिङ्गी मुण्डो जटिलो वा ता- पसः । भिक्षुक इति कुत्सायां कन् तस्य प्रव्रज्याप्रत्यवसितत्वात् । तस्योदास्थित इति द्वितीयं नाम । अध्यापकः छात्रवृत्त्या स्थितः । तस्य कापटिक इत्यपरं नाम । तथाचोक्तं ' गूढपुरुषानुत्पादयेत् कापटिकोदास्थितगृहपतिकवैदेहकता- पसव्यञ्जनान् सत्रितीक्ष्णरसद भिक्षुकीश्चे (कौटि. अर्थ. १. ११. ७. ) 'ति । एषु पञ्चसु सञ्चाराः सन्तिष्ठन्त इति संस्थाः । यदाह - चारसंस्थित्यै इति । सञ्चाराणां हि वैदेहकादिभिर्ग्रासाच्छादनादिसम्पादनात् तैरपि तत्र प्रचारार्पणाद् । दैत्तदार्योः कल्पितवृत्तयः । सुखाशया इति । आशयशब्दोऽत्रावस्थाने वर्त्तते । सुखावस्थाना इत्यर्थः । तथा ह्याशयाशो वह्निरुच्यते । अन्ये सुखाश्रया इति स्पष्टमेव पठ- न्ति ॥ ३६ ॥ १. कुर्यात् कार्यप्रसिद्ध' क पाठः. २. 'स्थितम्' ङ. पाठः. ३. 'त' ङ. च. पाठः. ४. ' यात् क' ङ. च. पाठः. + 'आशेतेऽत्रेत्याशय आधारः । आश्रयाश इत्येके' इत्यमरटीकायां क्षीरस्वामी ।