पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] एकोनविंशं प्रकरणम् । विवस्वानिव तेजोभिर्नभस्वानिव चेष्टितैः । १८३ राजा चारैर्जगत् कृत्स्नं व्याप्नुयाल्लोकसम्मतैः ॥ ३० ॥ चारचक्षुर्नरेन्द्रस्तु सम्पतेत् तेन भूयसा । अनेनासम्पतन् मार्गात् पतत्यन्धः समेऽपि हि ॥ ३१ ॥ सर्वसम्पत्समुदयं सर्वावस्थाविचेष्टितम् । चारेण द्विषतां विद्यात् तद्देशप्रार्थनादि च ॥ ३२ ॥ प्रकाशश्चाप्रकाशश्च चरस्तु द्विविधः स्मृतः । अप्रकाशोऽयमुद्दिष्टः प्रकाशो दूत उच्यते ॥ ३३ ॥ नभस्वान् वायुः। चेष्टितैः गतिभिः । जगत् कृत्स्नं व्याप्नुयात् तन्मतेपरि- च्छित्तये | लोकसम्मतैरिति । यस्य यद्देशभाषादिष्वभिरतिरस्ति तस्य तदीयदेशा- दितया सम्मतैः ॥ ३० ॥ तेन भूयसा चरसंज्ञकेन चक्षुषा प्रभूततरेण । तेनासम्पतन्, किन्तु मांस- चक्षुषैव प्रवर्तते । स च कृत्स्त्रलोकतत्त्वापरिज्ञानान्मूढोऽन्धोऽधः पतति न पश्यति । समेऽपि स्थले । (वाय?) विषममार्गे (सतां ?) किम्पुनरित्यर्थाद् ॥ ३१ ॥ वैरिविचेष्टितमिति सामान्येनोक्तं विशेषेणाह – सर्वसम्पत्समुदयमिति । सर्वेषाममात्यादीनां सम्पदं समुदयं च कोशम् । सर्वावस्थाविचेष्टितं सर्वासु व्ययमा- नव्यवस्थासु विचेष्टितम् । तद्देशप्रार्थनादि चेति । आदिशब्दादर्थकोशप्रार्थनम् ॥ यथा चरेण विद्यात् तथा दूतेनापि, तस्यापि चरत्वादित्याह - प्रकाश इति । अयम् अनन्तरोक्तोऽप्रकाशः । प्रकाशो दूतो यः प्रागुक्तः, सोऽपि चरः परचर्यासु चरतीति कृत्वा ॥ ३३ ॥ २. 'न्त्र' क ख ग घ. पाठः, २. 'ढोऽधः' क. ख. ग. घ. पाठः ३. 'विनश्य क.ख.ग.घ. च. पाठः. ४. 'द् दण्डको' ङ. पाठः. ५. 'पि तत्स्वरू (पाद् ? पत्वाद् ) इत्या' ड, पाठः, 'तत्स्वरूपाचारत्वादि (?)' क. ख. पाठः,