पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१८२ कामन्दकीय नीतिसारे

  • १९ दूतचरविकल्पप्रकरणम् *

तर्केङ्गितज्ञः स्मृतिमान् मृदुर्लघुपरिक्रमः । [त्रयोदशः क्लेशायास सहो दक्षश्चारः स्यात् प्रतिपत्तिमान् ॥ २६ ॥ तपस्विलिङ्गिनो धूर्ताः शिल्पपण्योपजीविनः । चराश्चरेयुः परितः पिबन्तो जगतां मतम् ॥ २७ ॥ निर्गच्छेयुर्विशेयुश्च सर्ववार्ताविदोऽन्वहम् । चराः सकाशं नृपतेश्चक्षुर्द्वरचरं हि ते ॥ २८ ॥ सूक्ष्मसूत्रप्रचारेण पश्येद् वैरिविचेष्टितम् । स्वपन्नपि हि जागर्ति चारचक्षुर्महीपतिः ॥ २९ ॥ त्याह - दूतेनैवेति, अन्यस्य परमण्डलगमनासम्भवात् । (वि) जानीयात् परदूत - विचेष्टितं यस्मात् परो विजिगीषुपदे च सञ्चारिणं दूतं प्रेषयति ॥ २५ ॥ (इति दूतप्रचारो नामाष्टादशं प्रकरणम् ) यथा दूतादरिविमर्शनं तथा चरादपीति चरविकल्प उच्यते पञ्चविंशत्या श्लोकैः । तत्र चरः किंगुणः स्यादित्याह - तर्केङ्गितज्ञ इत्यादि । तर्क ऊहः, गू- ढवस्तूत्प्रेक्षणमिति यावत् । इङ्गितम् अन्यथावृत्तिः । मृदुरनुद्भटः । स ह्यनुपलक्षितो भवति । लघुपरिक्रमः शीघ्रगमनक्षमः । प्रतिपत्तिमान् भयस्खलितेष्वाशु प्रति- विधाता ॥ २६ ॥ तस्य व्यापारमाह – तपस्वीत्यादि । तापसलिङ्गित्वं शिल्पपण्योपजीवित्वं च सञ्चरणोपायः । धूर्ताः परातिसन्धानचतुराः । परितः पिबन्तः विदन्तः वि- शेयुर्नृपतेः सकाशमिति सम्बन्धः ॥ २७ ॥ निर्गच्छेयुः तस्यैव सकाशादित्यर्थः । अन्वहं प्रतिदिनम् । चक्षुर्दूरचरं हि ते, इतरत् तु चक्षुरर्वाक्चरम् ॥ २८ ॥ सूक्ष्मसूत्रप्रचारेणेति । चारेणेति शेषः । पटे ह्यूयमानं सूत्रं सञ्चरत् सूक्ष्म- त्वान्नोपलभ्यते, तस्येव प्रचारोऽस्येति विग्रहः ॥ २९ ॥ १. 'लघुर्मृदुप' ख.ग. पाठः. २. 'प्रस्तुतोत्प्रे' च. पाठः ३. 'त्क' क.ख.ग. घ. पाठः..