पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] अष्टादशं प्रकरणम् । १८१ यात्राकालक्रियार्थी वा तत्र चायं विलम्बते । काले विक्षिप्यमाणे तु तर्कयेदिति पण्डितः ॥ २१ ॥ कार्यकालव्यपेतं च व्यक्तं ज्ञात्वा विनिष्पतेत् । तिष्ठन् वार्ताविशेषार्थी भर्त्रे सर्व निवेदयेत् ॥ २२ ॥ रिपोः शत्रुपरिच्छेदः सुहृद्वन्धुविभेदनम् । दुर्गकोशबलज्ञानं कृत्यपक्षोपसङ्ग्रहः ॥ २३ ॥ राष्ट्राटव्यन्तपालानामात्मसात्करणं तथा । युद्धापसारभूज्ञानं दूतकर्मेति कीर्तितम् ॥ २४ ॥ दूतेनैव नरेन्द्रस्तु कुर्यादरिविमर्शनम् । स्वपक्षे च विजानीयात् परदूतविचेष्टितम् ॥ २५ ॥ (इति दूतप्रचारो नामाष्टादशं प्रकरणम् ) यात्राकालक्रियार्थी वेति । यात्राकाले यत् परबलापेक्षया बलसमुत्थान- कर्म ततोऽपेक्षी (नार्थी ?) वा । तत्र च कर्मण्ययं प्रविलम्बमानो न प्रेषयति ॥ २१ कार्यकालव्यपेतं कार्यकालयोरतिक्रमणम् । वार्त्ताविशेषार्थीति । अस्मान- नादृत्यान्यत्रानेन सन्धिविग्रहादिकं प्रस्तुतं, तत्रास्य किं स्थितमिति निश्चयार्थी चेत्, तदा तत्रैव तिष्ठन् सर्वं यथोक्तं भर्त्रे निवेदयेत् प्रतिविधानार्थम् ॥ २२ ॥ सङ्क्षेपेण दूतव्यापारमाह --- रिपोरित्यादि । शत्रुपरिच्छेद एतावन्तोऽस्य शत्रव इति । बलं सैन्यम् ॥ २३ ॥ अटवी तात्स्थ्यादाटविकाः । युद्धापसारभूज्ञानमिति हस्त्यश्वरथपदातीना- मेता युद्धयोग्या भूमयः, एषा च बलवताभियुक्तस्य कलत्रस्थानमिति ॥ २४ ॥ यथा दूतामात्येन यथोक्तं विमर्शनं कुर्यात्, तथा किमन्येनाप्यमात्येने- १. 'क्ति' क पाठः २. 'जानीयादरिचेष्टितम् ' ख.ग. पाठः ३. 'व्यवायं का' ङ. पाठः. ४ 'ति तन्नि' क. ख. ग. घ. पाठः. ५. 'वसर' च. पाठः.