पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१८० कामन्दकीय नीतिसारे काले व्रजति मेधावी न खिद्येतार्थसिद्धये । [त्रयोदशः क्षिप्यमाणं च बुध्येत कालं नानाविलोभनैः ॥ १७ ॥ एतेष्वहस्सु गच्छत्सु तत्र नः पृथिवीपतेः । पश्यति व्यसनं किञ्चित् स्वयं वा कर्तुमीहते ॥ १८ ॥ स्वान्तः प्रकोपमथवा विनेतुं नीतिवित्तमः । सस्यादेः सङ्ग्रहं कर्तुं दुर्गे वा दुर्गसत्क्रियाम् ॥ १९ ॥ स्वपक्षाभ्युदयाकाङ्क्षी देशकालावुदीक्षते । उत यात्रां स्वयं दातुं येनास्मान्न समीहते ॥ २० ॥ न खिद्येत इहागतस्य मम बहवो दिवसा वर्तन्त इति । अर्थसिद्धये यथोपन्यस्तसन्धिविग्रहादिसिद्धये । क्षिप्यमाणं परेण स्वार्थ पश्यता । बुध्येत वक्ष्यमाणप्रकारेण । नानाविलोभनैः स्थीयतां तावैदभिमतं ते करिष्यामीति ॥ १७ ॥ नः पृथिवीपतेः अस्माकं राज्ञः । व्यसनं दैवं मानुषं वा पश्यति । तन्न सन्दध्यात् । स्वयं वा सामन्ताटविकादीनुत्थाप्य व्यसनं कर्तुमीहते अभियो- क्ष्यामीति ॥ १८ ॥ स्वान्तःप्रकोपमिति । स्वयं वा मन्त्र्यादिप्रकोपमपनेतुमीहते यथेष्टं स- न्धारय इति । सस्यादेः सङ्ग्रहं कर्तुमीहते परिक्षीणपुराणभक्तम् अगृहीतनवभक्तं परमभियोक्ष्यामीति । दुर्गसत्क्रियां भिन्नस्फुटितप्राकारादिसंस्कारं कर्तुमीहते दुर्ग- मविषयमाश्रित्य परकर्माण्युपहनिष्यामीति ॥ १९ ॥ स्वपक्षो मित्रं, यद् विजिगीषुमभियुञ्जानस्य साहाय्यं दास्यति, तस्य वा वृच्याकाङ्क्षी तदनुगुणी देशकालावुदीक्षते । स्वयं वा यात्रां दातुं स्वसैन्यव्यायामयोग्यौ देशकालावुदीक्षते, येनास्मान्न समीहते न प्रेषयति, प्रेषिते हि विजिगीषुः प्रतिविधास्यति ॥ २०॥ १. 'वद् इदमभिहितमिदं ते' क ख ग घ पाठः २. 'यां प्राकारादिभिर्विषयसं' क-ख. पाठः.