पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] अष्टादशं प्रकरणम् । विद्याशिल्पापदेशेन संश्लिष्योभयवेतनैः । कृत्यपक्षं विजानीयात् तद्भर्तुश्च विचेष्टितम् ॥ १३ ॥ तीर्थाश्रमसुरस्थाने शास्त्रविज्ञानहेतुना । तपस्विव्यञ्जनोपेतैः स्वचारैः सह सम्पतेत् ॥ १४ ॥ प्रतापं कुलमैश्वर्यं त्यागमुत्थानसौष्ठवम् । अक्षुद्रतां दक्षतां च भर्तुर्भेद्येषु कीर्तयेत् ॥ १५ ॥ भावमन्तर्गतं व्यक्तं सुप्तो मत्तश्च भाषते । १७९ तस्मादेकः स्वपेन्नित्यं स्त्रियः पानं च वर्जयेत् ॥ १६ ॥ अपदेशेन व्याजेन शङ्कापरिहारार्थम् । उभयवेतनैः, ते हि पूर्व प्रणिहिताः कथयितारः । कृत्यपक्षम् उपजापार्थ, तद्भर्तुश्च विचेष्टितं प्रतिविधानार्थं विजानी- यात् ॥ १३ ॥ तीर्थस्थान पुण्यनदीसमुद्देशः, आश्रमस्थानम् ऋषीणां निवासः, सुरस्थान देवायतनम् । तत्र सम्पतेदिति सम्बन्धः । तेषु तपस्विव्यञ्जनस्य सन्निधानात् । शास्त्रविज्ञानहेतुनेति सम्प्रधारणोपायः । तपस्विव्यञ्जनोपेतैरिति । तापसव्यञ्जनाः साध्वाचारा यत्र तत्र परस्परं चाराणां सम्पातो भवति, तद्युक्तैः स्वचारैः सह सम्पतेत्, शत्रुप्रचारज्ञानार्थम् ॥ १४ ॥ उत्थानसौष्ठवम् उत्साहसम्पदम् । अक्षुद्रतां सत्सङ्ग्रहशीलताम् । दक्ष- ताम् अनालस्यम् । भेद्येषु कृत्यपक्षेषु । तत्र क्रुद्धेषु प्रतापमुत्थानसौष्ठवं दाक्ष्यं (च) दर्शयेत् । त्रितयमप्यक्षुद्रतायुक्तं भीतेषु । तदेव चतुष्टयं कुलसहितं मानिषु । लुब्धेषु त्यागैश्वर्ये ॥ १५ ॥ सुप्तो मत्तश्चेति । तयोः स्वापमदाभ्यां परवशत्वात् । तस्मादेकः शयीत, नान्यैः ॥ १६ ॥ १. भद्रतां दक्षतां चापि भ' ख.ग. पाठः 'अक्षुद्रतां भद्रतां' क. पाठः २. 'द्यूतं पा' ख. ग. पाठः. ३. 'मुद्रादिनिर्देश:' क ख ग घ पाठः, ४. 'हीनेषु' क.ख.ग. घ. पाठः.