पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१७८ कामन्दकीय नीतिसारे सहेतानिष्टवचनं कामं क्रोधं च वर्जयेत् । [त्रयोदश नान्यैः शयीत संरक्षेद् भावं विद्यात् परस्य च ॥ ९॥ रागापरागौ जानीयात् प्रकृतीनां च भर्तरि । कृत्यपक्षोपजापं च कुर्यादनेभिलक्षितः ॥ १० ॥ वध्यमानोऽपि न ब्रूयात् स्वस्वामिप्रकृतिच्युतिम् । ब्रूयात् प्रश्रितया वाचा सर्वे वेद भवानिति ॥ ११ ॥ कुलेन नाम्ना द्रव्येण कर्मणा च गरीयसा । कुर्याच्चतुर्विधं स्तोत्रं पक्षयोरुभयोरपि ॥ १२ ॥ स्वामिसन्देशम् । रागापरागौ जानीयात् सन्देशमाचिख्यासुराख्याय वा । दृष्टिवक्रविचेष्टितैरिति । तत्रोर्ध्वाधस्तिर्यक्प्रसारितत्वं नैर्मल्यमुत्फुल्लता चेति दृष्टे- र्विचेष्टितानि, पुलकिता विकासश्चेति वक्रस्य । तै रागं लक्षयेद्, विपरीतैरपरा- गम् ॥ ८ ॥ । अनिष्टवचनम् अधिक्षेपादिकम् । कामं वेश्यासु । क्रोधं द्वेष्येषु । मन्त्रभेद- निवृत्त्यर्थं नान्यैः शयीत वक्ष्यमाणदोषात् । भावम् अभिप्रायम् ॥ ९ ॥ प्रकृतीनां भर्तरीति । शत्रुप्रकृतीनां स्वभर्तरि । कृत्यपक्षोपजापं कुर्यात् क्रुद्धलुब्धभीतावमानितन् भिन्द्यादित्यर्थः । अनभिलक्षितः शत्रोः ॥ १० ॥ स्वस्वामिप्रकृतिच्युतिमिति । स्वभर्तुः प्रकृतीनामसारतामल्पतां च न ब्रूयात्, किन्तु व्याजेनॉपसरेत् । यदाह - ब्रूयादिति । प्रश्रितया अनुकूलया । सर्व वेद भवानिति किमिहाविदितं युष्माकं चारचक्षुषां वयं त्वात्मव्यापारमात्रविद एवेति ॥ ११ ॥ कुलेन उदितोदितेन । नाम्ना दिगन्तरव्यापिना | द्रव्येण स्वपरोपकारिणा । कर्मणा सतामनिन्द्येन । उभयोरपि भर्तुः शत्रोश्च ॥ १२ ॥ 1 १. 'भावं स्वं रक्षेद् वि क. पाठः. १. 'नुपल' मूलकोशपाठः. ३. 'नि, नैर्मल्यं पु' च. पाठः. ४. 'नो भि' च. पाठः. ५. 'न प्रेरयेत्' क. ख. ग. घ. पाठः.