पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः अष्टादशं प्रकरणम् । स भर्तुः शासनाद् गच्छेद् गन्तव्यं ह्युत्तरोत्तरम् । स्ववाक्यपरवाक्यानामिति चेति च चिन्तयन् ॥ ४ ॥ अन्तपालांश्च कुर्वीत मित्राण्याटविकांस्तथा । जलस्थानानि मार्गाश्च विद्यात् स्वबलसिद्धये ॥ ५ ॥ नाविज्ञातः पुरं शत्रोः प्रविशेन्न च संसदेम् । कालमीक्षेत कार्यार्थमनुज्ञातश्च निष्पतेत् ॥ ६ ॥ सारवत्तां च राष्ट्रस्य दुर्गे तद्गुप्तिमेव च । छिद्रं च शत्रोर्जानीयात् कोशमित्रबलानि च ॥ ७ ॥ उद्यतेष्वपि शस्त्रेषु यथोक्तं शासनं वदेत् । रागापरागौ जानीयाद दृष्टिवक्रविचेष्टितैः ॥ ८ ॥ - १७७ इदानीमेकविंशत्या लोकैस्तत्प्रचारमाह- - स भर्तुरित्यादि । स इति निस्सृष्टार्थः । शासनाद् आज्ञया । गन्तव्यं यातव्यं शत्रुम् । इति चेति शासनमेवं वाच्यं, पर एवं वक्ष्यति, एवं तस्येदं प्रतिवाच्यम्, एवमति तन्धातव्यमित्युत्तरोत्तरं चिन्तयन् ॥ ४ ॥ अन्तपालान् जनपदान्तरक्षाधिकृतान् मित्राणि कुर्यादुपजापार्थं स्वबल- सिद्धये ॥ ५ ॥ अभियोगकाले नाविज्ञातः प्रविशेत् शङ्कानिवृत्तये । पुरं दुर्गम् । संसद सभाम् । कालमीक्षेत कार्यार्थम् इदं कार्यमस्मिन् काले सिध्यतीति । अनुज्ञातः शत्रुणा विसर्जितः ॥ ६॥ सारवत्तां स्फीतताम् । दुर्गं जानीयात् कियता बलेनाधिष्ठीयते विलुप्यते चेति । तद्गुप्तिं विषमस्थानम् । छिद्रम् अन्तःकोपादि ॥ ७ ॥ उद्यतेष्वपीति प्राणबाधार्थमुत्खातेष्वपि किमुत विभीषिकादौ । शासनं १. 'पदंश' ख. ग. पाठः. २. 'दि' ख.ग. पाठः. ३. ' च्यः परः, स प्रवक्ष्यत्येवं, तस्यैवं, प्रतिवाच्यमेवम्, इति सन्धा' च. पाठः.