पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ त्रयोदशः सर्गः ।

  • १८ दूतप्रचारप्रकरणम् । *

कृतमन्त्रः सुमन्त्रज्ञो मन्त्रिणं मन्त्रिसम्मतम् । यातव्याय प्रहिणुयाद् दूतं दूत्याभिमानिनम् ॥ १ ॥ प्रगल्भः स्मृतिमान् वाग्मी शस्त्रे शास्त्रे च निष्ठितः । अभ्यस्तकर्मा नृपतेर्दूतो भवितुमर्हति ॥ २ ॥ निसृष्टार्थो मितार्थश्च तथा शासनहारकः । सामर्थ्यात् पादतो हीनो दूतस्तु त्रिविधः स्मृतः ॥ ३ ॥ अस्मिन् सर्गे प्रकरणद्वयं दूतप्रचारश्चीरविकल्पश्च । सन्धिविग्रहाद्यर्थो मन्त्रः। स च स्वपरमतसम्पादनाधीनः । तच्च प्रस्तावज्ञाद् दूतात् चाराच्च भवति । अतो मन्त्रविकल्पानन्तरमुभयविधिः षाड्गुण्यशेषभूत उच्यते । तत्र प्राधान्याद् द्वैतविधिमाह - - कृतमन्त्र इत्यादि । कृतमन्त्रः उद्धृतमन्त्रः । दूत्याभिमानिन- मिति । यो मन्त्री दूतकर्मणि जाताभिमानो मन्त्रिसम्मतश्च तं दूत्येन यातव्याय शत्रवे प्रेषयेत् । तस्य कार्यसाधनयोग्यत्वात् ॥ १ ॥ --- दूतगुणानाह - प्रगल्भ इत्यादि । अमात्यस्वरूपो दूतः । तस्य प्रकृति- सम्पदि गुणा उक्ता एव । पुनरिह कतिपयगुणोपादानं प्राधान्यार्थम् । निष्ठितः प्रकृष्टः । अभ्यस्तकर्मा बहुधा कृतदूत्यः ॥ २ ॥ निसृष्टार्थः यथाकामेन निसृष्टः सन्ध्यादिरर्थो यस्मिन् । परिमितार्थः त्वयैतावद् वाच्यमिति । शासनहारकः लेखनहारकः । सामर्थ्यात् पादतो हीन इति अमात्यगुणांश्चतुर्धा विभज्य योजनीयम् । तत्र गुणसाकल्यं सामर्थ्यमस्य, त- दुपेतो निसृष्टार्थो वेदितव्यः । तस्य पादतो हीनः पादत्रययुक्तः परिमितार्थः । तस्यापि पादतो हीनः पादद्वययुक्तः शासनहारकः । तेन भेद्यापेक्षया पादतो हीन इति द्विरावर्त्तनीयम् । उक्तञ्च "अमात्यसम्पदोपेतो निस्सृष्टार्थः, पादगुणहीनः परिमितार्थः, अर्धगुणहीनः शासनहारकः” (कौटि. अर्थ. १.१६.१२.) इति ॥ ३ ॥ १. 'च' ङ. च. पाठः. २. ४. 'धषा' क ख ग घ पाठः. ङ च. पाठ:: ' स्वमतपरमतसाधना' ङ. पाठः. ५. 'तस्तद्भेद उ' क. ख.ग. घ. पाठः. ३. 'द्वा' क. ख. पाठः. ६. 'तमधिकृत्याह '