पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] सप्तदर्श प्रकरणम् । १७५ अहिते हितबुद्धिरल्पधीरवमन्येत मतानि मन्त्रिणाम् । चपलः सहसैव सम्पतन्नरिखङ्गाः प्रबुध्यते ॥ ५६ ॥ अविचार्य बलाबलं द्विषामहमित्येव समुद्धतोऽनयात् । चपलः स्वमेतेन सम्पन्ननिपयाल्पमना न बुध्यते ॥ ५७ ॥ इति मन्त्रबलान्महीपतिर्महतो दुष्टभुजङ्गमानिव । विनयेन्नयमार्गमास्थितो वशमुद्योगसमन्वितो रिपून् ॥ ५८ ॥ (इति मन्त्रविकल्पो नाम सप्तदशं प्रकरणम् ) इति कामन्दकी नीतिसारे मन्त्रविकल्पो नाम द्वादशः सर्गः । काले प्रैविभक्ते । क्षुद्रैर्मुख्यैश्च सहायैरुपेतः । विशुद्धपार्श्वः कृतविपत्प्रतीकारत्वात्। तदिति सद्यःसिद्धिकरम्। न चापलादिति । चपलो मन्त्रिभिः स्वयं वा अविमृश्य- कारी ॥ ५५ ॥ तदुभयमप्याह --- अहितइत्यादि । दुःखहेतौ सुखहेतुरित्येवं बुद्धिरल्प- बुद्धित्वात् । मतानि कृतपञ्चाङ्गविनिर्णयानुपदेशान् योऽवमन्यते । सहसा सम्पन् मन्त्रिभिरविमृश्य वर्तमानः शत्रुभिरिछद्रेषु प्रहृतश्चेतयते ॥ ५६ ॥ अविचार्य स्वयं बलादहमिति जातदर्पो हि न स्वयं विमृशति । स्वमतेन विचारशून्येन । अनिपत्य न बुध्यते स्वपदात् परिभ्रष्ट एव वेदयते । अल्पमनाः अल्पबुद्धिः ॥ ५७ ॥ प्रकरणानुष्ठानफलमाह - इतीत्यादि । महतो रिपूनिति सम्बन्धः । दुष्ट- भुजङ्गमानिव । तेऽपि मन्त्रवलादेव वशीक्रियन्ते । विनयेद् वशमिति सम्बन्धः । नयमार्ग षाड्गुण्यविधिम् । उद्योगसमन्वित इति उद्योगः सर्वत्र प्रधानमिति मन्यते ॥ ५८ ॥ ( इति मन्त्रविकल्पो नाम सप्तदशं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीयनीतिसारपञ्चिकायां जयमङ्गलायां मन्त्रविकल्पो नाम द्वादशः सर्गः । १. • यभेव सम्पतन् निपतत्यात्ममना न तिष्ठति' इति मूलकोशेषु पाठः. २. 'प्राग्वि' ङ. च. पाठः. ३. 'र्वप्र ' ङपाठः.