पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१७४ कामन्दकीयनीतिसारे महापक्षो यथाशास्त्रं दृष्टकर्मा हितः सुधीः । [द्वादशः यद्यद् ब्रूयान्मतारूढस्तत्तत् साधु समाचरेत् ॥ ५१ ॥ नातीयात् कार्यकालं हि कृत्वा मन्त्रविनिश्चयम् । अतिक्रान्तं तु तं भूयो यथायोगं प्रकल्पयेत् ॥ ५२ ॥ न कार्यकालं मतिमानतिक्रामेत् कदाचन । कथञ्चिदेव भवति कार्ययोगः सुदुर्लभः ॥ ५३ ॥ सतां मार्गेण मतिमान् काले कर्म समाचरेत् । काले समाचरन् साधु रसवत् फलमश्नुते ॥ ५४ ॥ इति चेति च सम्पश्यन् काले देशे सहायवान् । विशुद्ध पार्श्वसंसिद्धः समाक्रामेन्न चापलात् ॥ ५५ ॥ तत्रैषां यो महापक्षादिगुणयुक्तो यद् ब्रूयात्, तदाचरेदित्याह -- महापक्ष इत्यादि । बहुभिर्मन्त्रिभिरनुगम्यमानत्वान्महापक्षः । यथाशास्त्रं कुर्यादिति सम्ब न्धः । दृष्टकर्मा अन्यत्र दृष्टमन्त्रप्रयोगः । हितः स्वामिने । मतारूढः निश्चय- मतारूढः ॥ ५१ ॥ तत्रोत्तरमन्त्रिभिः परिषदा वा मन्त्रं विनिश्चित्य कार्यकालं न हापयेदिति श्लोकत्रयेण दर्शयति – नातीयादित्यादिना । यथायोगमिति । यो यस्य साध्यस्य कालेन योगस्तं तेन पुनः प्रकल्पयेदिति ॥ ५२ ॥ कालस्य कार्ययोगो न सुलभ इति मन्यमान आह--न कार्यकालमि- त्यादि ॥ ५३ ॥ तस्मात् तत्रैव काले कर्म समाचरेदित्याह - सतां मार्गेणेति । मन्त्रिणा- मुपदेशेन स्वादु साधु फलमश्नुते रसवत्त्वात् । अन्यथा कालातिपत्तिः प्रत्यग्रं कार्यरसं विहन्ति ॥ ५४ ॥ तत्रापि मन्त्राङ्गसव्यपेक्ष एव कार्यमारभेत, न चापलादिति श्लोकत्रयेण दर्शयति – इतीत्यादिना । अयमस्य साधनोपाय इत्यादा (तुं य ? तव्य )स्य देशे १. 'न्तेऽपि त' ख.ग. पाठः २. 'सम्पत्फलमुपाश्नु' ख. ग. पाठः. ३. 'सन्धानो' ख. ग. पाठ: $ 'विशुद्धपार्श्व' इति 'तद्' इति च पदयोर्व्याख्याने ग्रहणाद् 'विशुद्ध पार्श्वस्तद्वस्तु' इति पाठो गम्यते । ‘विशुद्धपाणिस्सद्वस्तु' इति मुद्रितव्याख्यान्तरपाठः.