पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] सप्तदश प्रकरणम् । निस्तम्भे निर्गवाक्षे च निष्कुड्यान्तरसंश्रये । प्रासादाग्रे ह्यरण्ये वा मन्त्रयेदविभावितः ॥ ४७ ॥ द्वादशेति मनुः प्राह षोडशेति बृहस्पतिः । उशना विंशतिरिति मन्त्रिणां मन्त्रिमण्डलम् ॥ ४८ ॥ यथासम्भवमित्यन्ये तत् प्रविश्य यथाविधि । मन्त्रयेाहितमनाः कार्य बुद्धिविवृद्धये ॥ ४९ ॥ एकैकेनापि कार्याणि प्रविचार्य पुनः पुनः । प्रविशेत् स्वहितान्वेषी मतमेषां पृथक् पृथक् ॥ ५० ॥ १७३ मन्त्रप्रदेशमाह -- निस्तम्भ इत्यादि । निष्कुड्यान्तरसंश्रय इति । मध्ये कुड्यमवस्थाप्य यदवस्थानं क्रियते तत् कुड्यान्तरसंश्रयम् । भित्त्यन्तरेति वा पाठः । तेन रहिते । अविभावितः अनुपलक्षितः । प्रज्ञा हि दूरादेवौष्ठपतनादिभिरभिप्रायं विन्दन्ति ॥ ४७ ॥ यतो मन्त्रज्ञानं, तद् मन्त्रिमण्डलम् । तत्र वृत्तं चतुर्भिः श्लोकैराह -- द्वा- दशेत्यादि । उत्तरमन्त्रिव्यतिरेकेणेयं चिन्ता । तत्रोत्तरमन्त्रिणस्त्रयश्चत्वारो वा कर्तव्याः । तद्व्यतिरेकेणान्ये द्वादशराजकेतिकर्तव्यतापरिज्ञानाय द्वादश मन्त्रिणः स्युः । षोडशेति । एते चान्ये चारिविजिगीषुमध्यमोदासीनेषु चतुर्षु मण्डलेषु द्रव्यप्रकृतिपञ्चकस्वरूपविदश्चत्वार इति । विंशतिरिति । दशराजके तत्स्वरूपविदो दश, द्रव्यप्रकृतिविशेषविदश्च दशेति ॥ ४८ ॥ 1 यथासम्भवमिति । अन्ये कौटिलीयाः । यस्य यावन्तो गुरुलघुकार्यापेक्षया सम्भवन्ति तस्य तावन्तः स्युः । तस्यैव कार्यसामर्थ्याद्धि पुरुषसामर्थ्य प्रकल्प्यते । तत्र वृत्तमाह – तदित्यादिना । मन्त्रिमण्डलं प्रविश्य यथाविधि आहितमना एकाग्रचित्तः, अनुद्धतवेषो भूत्वेत्यर्थः । बुद्धिविवृद्धये मन्त्रप्रयोगार्थं तूत्तरमन्त्रिभिरेव सह मन्त्रयेतेत्याचार्येणोक्तम् *' एतत् त्रिभिश्चतुर्भिवा मन्त्रयेते' (कौटि. अर्थ. १. १५. ११ ) ति ॥ ४९ ॥ एकैकेनामात्येन सह सम्भूय मतं प्रविशेत्, कस्य किंसमुत्थोऽभिप्राय इति विद्यात् ॥ ५० ॥ १. ‘निर्भित्त्यन्तर' इति मूलकोशेषु पाठः. २. 'त्येके त' ख-गं. पाठः ३. 'दः तद्द्र' क. ख. ग. घ. पाठ:. ४. 'तिविद' ङ. च. पाठः. ५. 'स्युः का' ङ. च. पाठः.

  • मन्त्रिभिस्त्रिभिश्चतुर्भिर्वा सह मन्त्रयेतेति मुद्रितकौटिलीयार्थशास्त्रपाठः ।