पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१७२ कामन्दकीय नीतिसारे [द्वादशः मनःप्रसादः श्रद्धा च तथा करणपाटवम् । सहायोत्थान सम्पन्च कर्मणां सिद्धिलक्षणम् ॥ ४२ ॥ 'लघुत्थानान्यविज्ञानि सम्भवत्साधनानि च । कथयन्ति पुनः सिद्धिं करणान्येव कर्मणाम् ॥ ४३ ॥ आवर्तयेन्मुहुर्मन्त्रं धारयेच्च प्रयत्नतः । अप्रयत्नधृतो मन्त्रः प्रचलन्नग्निवद् दहेत् ॥ ४४ ॥ आप्ताप्तसन्ततेर्मन्त्रं संरक्षेत् तत्परस्तु सन् । अरक्ष्यमाणं मन्त्रं हि भिनत्त्याप्तपरम्परा ॥ ४५ ॥ मदः प्रमादः कामश्च सुप्तप्रलपितानि च । भिन्दन्ति मन्त्रं प्रच्छन्नाः कामिन्योऽवमतास्तथा ॥ ४६ ॥ मन्त्रसिद्धिमूलान्याह ---- मनःप्रसाद् इत्यादि । संशयाभावान्मनसो वैमल्यम् । श्रद्धा साध्येषु । करणपाटवं बुद्धिकर्मेन्द्रियाणां स्वविषयव्यापारसामर्थ्यम् । सहायसम्पत् सत्त्वप्रतिज्ञादियोगो बाहुल्यं च । उत्थान सम्पल्लघूत्थायिता । कर्मणा- मारभ्यमाणानाम् । तत्कर्मसिद्धिरेव मन्त्रसिद्धिरिति मन्त्राणामिति नोक्तम् ॥ ४२ ॥ लघूत्थानानि करणानीति सम्बन्धः । साध्यस्य यान्युपादानसाधनानि तेषु विजिगीषोर्लधू (न्यू) स्थानानीति सप्तम्यर्थे बहुव्रीहिः । सम्भवत्साधनानि सम्भ- वत्सहकारिकारणानि ॥ ४३ ॥ धृतस्य मन्त्रस्याप्रयोगकालमावर्तनं धारणं च कुर्यादित्याह ---- आवर्तयेदिति । अविस्मरणार्थं धारयेद् यथाधिष्ठानान्तरं न ( चा ? या ) ति । प्रचलन्नधिष्ठानान्तरं गच्छन् ॥ ४४ ॥ संरक्षेन्मन्त्रबीजमित्युक्तं, तत् कुतो रक्षेदित्याह -- आप्ताप्तसन्ततेरिति । कथमिदमेवं स्यादिति निर्णयाय विजिगीषुराप्तं मन्त्रिणं पृच्छति, सोऽपि वृ (द्वयन्त- मु? द्धं तदु)पजीविष्वन्यं, सोऽप्यन्यमित्यात्प्तपरम्परा भिनत्ति । ततः संरक्षेन्मन्त्र- बीजमित्युक्तम् ॥ ४५ ॥ तथान्येऽपि मन्त्रभिद इत्याह मद इत्यादि । सुरापानादिजनितो मदः । प्रमादः कार्यान्तरप्रसङ्गात् । कामः स्त्रीषु विश्वासहेतुः । सुप्तप्रलपितानि स्वप्नावस्थायाम् । प्रच्छन्नाः स्तम्भादितिरस्कृताः । कामिन्यः पार्श्ववर्तिन्यः । *अवमताः (दिच्छा ?) मूकसमानाः ॥ ४६ ॥ १. 'इ' ङ. च. पाठः, ८.

  • 'अवमता न किमपि जानन्तीत्यवज्ञाताः शुकशारिकाबालव्याधिप्रपीडितादयः' इति रा- जेन्द्रलालमित्र संशोधितायाम् उपाध्यायनिरपक्षासारिण्याख्यटीकायां व्याख्यातम् ।