पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] सप्तदर्श प्रकरणम् | अविज्ञातस्य विज्ञानं विज्ञातस्य विनिश्वयः । अर्थद्वैधस्य सन्देहच्छेदनं शेषदर्शनम् ॥ ३० ॥ विदुषां शासने तिष्ठन् नावमन्येत कंचन । सर्वस्यैवोपशृणुयात् सुभाषितजिवृक्षया ॥ ३१ ॥ मदोदवृत्तः क्रियामूढो योऽतिक्रामति मन्त्रिणम् । अचिरात् तं वृथामन्त्रमतिक्रामन्ति विद्विषः ॥ ३२ ॥ संरक्षेन्मन्त्रबीजं हि तद्वीजं हि महीभृताम् । तस्मिन् भिन्ने ध्रुव भेदो गुप्ते गुप्तिरनुत्तमा ॥ ३३ ॥ १६९ इदानीं मन्त्रस्य ज्ञानरक्षाप्रकाशन प्रशस्ताङ्गव्यापारोत्पत्ति क्रमशुद्धिसिद्ध्या- वर्तनधारण प्रदेशानष्टादशभिः श्लोकैराह --- अविज्ञातस्येत्यादि । मन्त्रनिर्णयो मन्त्रज्ञानम् । तच्च मन्त्रिभिः सह मन्त्रयमाणस्य, नैकाकिनः । तथाहि देशकाला- न्तरितत्वाद साक्षात्कृतस्य विज्ञानं मन्त्रिभ्य एव । मन्त्रिसाक्षात्कृतस्यापि तत्त्वा- भासनिश्चयभूयस्त्वे निश्चयो बुद्ध्यन्तरात् । अर्थद्वैधस्य दशया यातव्ययोः कं प्रति यायाद् इत्यादिसन्देहे तच्छेदनं मन्त्रयुपदेशात् । शेषदर्शनम् एकदेशदृष्टस्येति शेषः । सन्धिविग्रहयोः सन्धिः श्रेयानिति शेषोपलब्धिः । एतच्चतुष्टयरूपं मन्त्रिसाध्यमिति तेषां शृणुयात् ॥ ३० ॥ यदाह - विदुषामिति । शासनम् उपदेश: । सर्वस्य अशास्त्रज्ञानस्यापि । सुभाषितजिघृक्षया अर्थवद् वाक्यं ग्रहीतुमिच्छया ॥ ३१ ॥ अवमानने दोषमाह --- मदोद्वृत्त इति । अहमेव ज्ञानवानिति मदावलिप्तः । क्रियामूढः प्रयोगानभिज्ञः । वृथामन्त्रं निष्फलमन्त्रम् ॥ ३२ ॥ रक्षितो मन्त्रः फलवानित्याह - संरक्षेदिति । निर्णयकालात् प्रभृति यावत्कर्मारम्भकालम् । मन्त्र एवं बीजं, ततो राज्यफलप्रसवात् । यदाह तद्वीजमिति । भेदो विनाशः । अनुत्तमा श्रेयसी ॥ ३३ ॥ AAA १. 'कर्हिचित्' ख.ग. पाठः. २. 'त' ख.ग. पाठः.