पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१६८ कामन्दकीय नीतिसारे [द्वादश: हितानुबन्धि तज्जातु गच्छेद् येन न वाच्यताम् । तस्मिन् कर्मणि सज्जेत तदात्वकटुकेऽपि हि ॥ २४ ॥ बुचैवोपक्रमः श्रेयान् फलनिष्पत्तये सदा । क्वचित् कल्याणमित्रस्य दृश्यते सिंहवृत्तिता ॥ २५ ॥ सहसोत्पत्य दुष्टेभ्यो दुष्करं सम्पदार्जनम् । उपायेन पदं मूर्ध्नि न्यस्यते मत्तहस्तिनः ॥ २६ ॥ न किञ्चित् क्वचिदस्तीह वस्त्वसाध्यं विपश्चिताम् । ● अयोऽभेद्यमुपायेन द्रवतामुपनीयते ॥ २७ ॥ वाह्यमानमयः पिण्डं महच्चापि न कृन्तति । तदल्पमपि धारावद् भवतीप्सितसिद्धये ॥ २८ ॥ लोकप्रसिद्धमेवैतद् वारि वह्नेर्नियामकम् । उपायोपगृहीतेन तत् तेनैव विशोष्यते ॥ २९ ॥ तदात्वकटुकेऽपि आरम्भकाले समुद्वेजनेऽपि तितौषधपानवद् ॥ २४ ॥ बुद्धचैवोपक्रमः श्रेयान् यथोक्तेषु कर्मसु । क्वचिदिति भीते । तत्रापि कल्याणमित्रस्य सुसहायस्येत्यर्थः ॥ २५ ॥ / सहसोपक्रमे चार्थसिद्धिर्दुष्करैवेत्याह--- सहसोत्पत्येति । उपायेन बुद्धिपूर्वकेण ॥ २६ ॥ न किञ्चित् क्वचिदस्तीत्यादि उपायस्याभिव्यापितां दर्शयति । अयो द्रवतां नीयत इति सम्बन्धः । अभेद्यमपि सद् ॥ २७॥ बाह्यमानं व्यापार्यमाणम् । तत्रापि स्वल्पमपिच्छेद्यम् । धारावद् धारोपेतम् । ईप्सितसिद्धये छिदयारिपीडयैव ॥ २८ ॥ उपायोपगृहीतेनेति । वह्निनाधस्तात् प्रतप्यमानायां स्थाल्यां तद्गतं वारि शोष्यते । तस्मान्मन्त्रनिर्णयः कार्य इति स्थिरीकृतम् ॥ २९ ॥ १. 'शस्यते' क. पाठः.

  • 'यो द्रव्यम्' मूलकोशेषु पाठः.