पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ सर्गः १६७ पोडशं प्रकरणम् । यत् तु सम्यगुपक्रान्तं कार्यमेति विपर्ययम् । पुमांस्तवानुपलभ्यो दैवान्तरितपौरुषः ॥ १९ ॥ प्रयत्नस्तावदास्थेयः फलायामलबुद्धिना । अथर्ववेदनिपुणः शेषं दैवं समाश्रयेत् ॥ २० ॥ आत्मानं च परं चैव वीक्ष्य धीरः समुत्पतेत् । एतदेव हि विज्ञानं यदात्मपरवेदनम् ॥ २१ ॥ निष्फलं क्लेशबहुलं सन्दिग्धफलमेव च । न कर्म कुर्यान्मतिमान् महावैरानुबन्धि च ॥ २२ ॥ तदात्वायतिसंशुद्धं सुविशुद्धक्रमागतम् ।

हितानुबन्धि च सदा कर्म सद्भिः प्रशस्यते ॥ २३ ॥ यदाह --- यत् तु सम्यगित्यादि । उपक्रान्तम् आरब्धम् । विपर्ययं नैष्फल्यम् । दैवान्तरितपौरुषः अलक्षणेन दैवेन बलवता तिरस्कृतपुरुषकार इत्यर्थः । तत्र दैवमेवोपालभ्यम्, अत्र पुमान् ॥ १९ ॥ यदि दैवं प्रधानं किं तर्हि पुरुषकारेणेत्याह -- प्रयत्न इत्यादि । अमलबुद्धिनेति विचारपूर्वकः पुरुषकारः कार्य इति दर्शयति । अथर्ववेदनिपुणः अकाण्डविनाशकुशलः । दैवं समाश्रयेत् सहकारितया ॥ २० ॥ उत्साहवतोऽपि विक्रमो विचारपूर्वक एव फलवानिति दर्शयितुमाह - आत्मानं चेत्यादि । एतदेव हि विज्ञानं बुद्धेः कौशलं, यत् प्रथममेवात्मपरवेदनम् अभ्युच्चयापचयाभ्याम् ॥ २१ ॥ उपायपूर्वक लिप्सेतेत्युक्तम् । कीदृशं पुनस्तत् कर्म लिप्सेत त्यजेचेति प्रसङ्गादाह --- निष्फलमित्यादिना ॥ २२ ॥ सुविशुद्धक्रमागतं देशकालोपेतत्वात् ॥ २३ ॥ १. 'न ति' क ख ग घ पाठः.