पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१६६ [द्वादश: कामन्दकीय नीतिसारे नाग्निं पतङ्गवद् गच्छेत् स्पृश्यमेव तु संस्पृशेत् ।

किमन्यत् स्यादृते दाहात् पतङ्गस्याग्निमृच्छतः ॥ १३ ॥ मोहात् प्रक्षिपतश्रेष्ठां दुःखलभ्येषु वस्तुषु । भवन्ति परितापिन्यो व्यक्तं कर्मविपत्तयः ॥ १४ ॥ बुद्ध्या बोध्यानुगतया परीयात् सम्पदः पदम् । विशुद्धपदविन्यासः पर्वताग्रमिवोन्नतम् ॥ १५ ॥ दुरारूढं पदं राज्ञां सर्वलोकनमस्कृतम् । स्वल्पेनाप्यपचारेण ब्राह्मण्यमिव दुष्यति ॥ १६ ॥ आरब्धानि यथाशास्त्रं कार्याण्यमलबुद्धिभिः । वनानीव मनोहारि प्रयच्छन्त्यचिरात् फलम् ॥ १७ ॥ सम्यगारभ्यमाणं हि कर्म यद्यपि निष्फलम् । न तत तथा तापयति यथा मोहसमीहितम् ॥ १८ ॥ स्पृश्यमेव तु संस्पृशेत् शक्यमेवारभेत ॥ १३ ॥ चेष्टां प्रक्षिपतः कुर्वतः । परितापिन्यः परितापनशीलाः । कर्मविपत्तयः कर्मव्यापदः ॥ १४ ॥ यस्मादपरिच्छेद्या एते दोषास्तस्माद् बुद्ध्या सर्वे परिच्छिन्द्यादित्याह--- बुद्धयेति । बोध्यानुगतया यथावस्थितवस्तुविषयया विशुद्धपदविन्यास इति सम्बन्धः । परीयात् सम्पदः पदम् आक्रामेद् राज्यम् ॥ १५ ॥ अविशुद्धे च पदन्यासे तत् स्वल्पेनापि दोषेण दुष्येदित्याह - दुरारूढमित्यादि ॥ १६ ॥ गुणख्यापनेन मन्त्रनिर्णयं स्थिरीकर्तुमाह - आरब्धानीत्यादिना । वनानीवेति । तान्यपि वृक्षायुर्वेदविहितेन विधिना ज्ञात्वारब्धानि अचिरात् फलं ददतते ॥ १७ ॥ ननु सम्यगारब्धमपि कर्म कदाचिन्निष्फलं भवत्येव । ततश्च निर्णयानिर्णययोः को भेद इत्याह- सम्यगित्यादि । न तापयति, तत्र पुरुषस्यानुपालभ्यत्वात् ॥ १८ ॥ १. 'रारोहं प' क. पाठः २. 'कार्य य' क. पाठः. ३. 'तथा तापमयति' ख.ग. पाठः ४. 'प्यायु' क ख ग घ ङ. पाठः. ५ ' नु च स' च. पाठः.