पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] षोडशं प्रकरणम् । + (असुरान् मोहयामास शुक्ररूपी बृहस्पतिः । बृहस्पतिं तथा शुक्रः शशापानुपमद्युतिः ।) अशिक्षितनयः सिंहो हन्तीभं केवलं बलात् । १६५ तं च धीरो नरस्तेषां शतानि मतिमान् जयेत् ॥ ८ ॥ पश्यद्भिर्दूरतोऽपायान् सूपायप्रतिपत्तिभिः । भवन्तीह फलायैव विद्भिमन्त्रिताः क्रियाः ॥ ९ ॥ उपायपूर्वं लिप्सेत कालं वीक्ष्य समुत्पतेत् । पश्चात्तापाय भवति विक्रमैकरसज्ञता ॥ १० ॥ शक्याशक्य परिच्छेदं कुर्याद् बुद्ध्या प्रसन्नया । केवलं दन्तभङ्गाय दन्तिनः शैलताडनम् ॥ ११ ॥ अशक्यारम्भवृत्तीनां कुतः क्लेशाहते फलम् । आकाशमास्वादयतः कुतस्तु कबलग्रहः ॥ १२ ॥ अशिक्षितनयः मन्त्रशक्तिविकलः । बलाद् उत्साहशक्त्या । तत्र सिंहश्च तेषां हस्तिनां शतानि जयेदिति सम्बन्धः । मतिमान् मन्त्रशक्त्युपेतः ॥ ८ ॥ तस्मान्मन्त्रशक्त्या निरूपित एव कार्यारम्भः फलायेत्याह - पश्यद्भिरित्यादि । सूपायप्रतिपत्तिभिः सदुपायानुष्ठानैः ॥ ९ ॥ इदानीं मन्त्रनिर्णयमेव विस्तरतो गुणख्यापनेन स्थिरीकर्तुं विंशतिश्लोकानाह । उपायपूर्वमिति मन्त्रशक्तिव्यापारं सूचयति । विक्रमैकरसज्ञता उत्साह- शक्तितत्परता ॥ १० ॥ बुद्धया प्रसन्नया अन्यथा ह्यपरिच्छेदमोहादशक्येषु प्रवर्तमानस्याङ्गवैकल्यं निष्फलक्लेशता विपत्तिरन्तस्तापश्चेति दोषाः स्युः । तान् दर्शयति - केवलमि- त्यादिना । दन्तभङ्गायेति । गजो हि निर्मलशिलातलेषु स्वबिम्बं दृष्ट्वा प्रतिगजो- ऽयमिति मन्यमानो मोहात् तस्मिन् परिणतो दन्तभङ्गमवाप्नोति ॥ ११ ॥ कुतस्तु कबलग्रहः शून्यत्वात् ॥ १२ ॥ १. 'श्चिन्तिताः' क. पाठः. २. 'निर्दिष्टा वि' क. पाठः + पद्यमिदं कसंज्ञके मूलकोशे न पठ्यते, व्याख्यात्रा च न स्पृष्टम् .