पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१७० कामन्दकीयनीतिसारे [ द्वादश: सिंहवच्चेष्टमानस्य काले कर्म विपश्चितः । क्रियमाणं स्वकुल्यास्तु विधुरस्यं परे कृतम् ॥ ३४ ॥ अपश्चात्तापकृत् सम्यगनुबन्धिफलप्रदः । अदीर्घ कालोडभीष्टश्च प्रशस्तो मन्त्र इष्यते ॥ ३५ ॥ सहायाः साधनोपाया विभागो देशकालयोः । विपत्तेश्च प्रतीकारः सिद्धिः पञ्चाङ्ग ईष्यते ॥ ३६ ॥ कदा तर्हि मन्त्रः प्रकटीभवतीत्याह - सिंहवदित्यादि । सर्वकृतप्रतिविधानत्वात् सिंहस्येव निश्शङ्कं चेष्टमानस्य । काले प्रागवधारिते । क्रियमाणं स्वकुल्या विद्युः नतु चिकीर्षितम् । परे कृतं समाप्तं विद्युः । अनेन क्रियानुमेयतां मन्त्रस्य दर्शयति ॥ ३४ ॥ प्रशस्ते च मन्त्रे यत्नः कार्य इति दर्शयितुमाह- अपश्चात्तापेत्यादि । अदीर्घकालः चिरेण कालेन यो न निष्पद्यते । अभीष्टः ईप्सितार्थसाधनत्वात् ॥ ३५॥ प्रशस्तः स्वाङ्गसाफल्याद् भवतीति तान्यङ्गान्याह --- सहाया इत्यादि । अत्र दुर्गकर्मणि सहाया मुख्याः क्षुद्राश्च पुरुषाः । साधनोपायाः दुर्गस्यारम्भं प्रत्युपायाः कुद्दल कुठारकरपत्रादयः । विभागो देशकालयोरिति । तत्र जनपदान्ते जनपदमध्ये चेति देशविशेषः । वर्षासु काष्ठादिकर्म, ग्रीष्मे हेमन्ते चेष्टकादिकर्मेति कालविभागः । विपत्तेश्चेति आरब्धे दुर्गकर्मणि दैव्या मानुष्याश्चोत्प- (र्याय : न्नाया) विपदः अथर्वभिरुपायैः सामादिभिश्च प्रतीकारः । सिद्धिरिति कार्यस्येति शेषः । (तत्र मन्त्रविषयान्ते निष्पन्नदुर्गमविषयमाश्रितः परकर्माण्यपहनिक्ष्यामि जनपदमध्ये च समुदायस्थानं भवतीत्यादि ? ) पञ्चाङ्ग इष्यते मन्त्र इत्येव । उक्तञ्च " कर्मणामारम्भोपायः पुरुषद्रव्यसम्पद् देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्र" (कौटि, अर्थ. १.१५.११) इति ।। ३६ १. 'स्याप' ग. पाठः २ 'मन्त्रः प' मूलकोशेषु पाठः ३ 'उच्यते ' मूलकोशेषु पाठ: . ४. 'न्दा' च पाठः.