पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ द्वादशः सर्गः ।

  • १७ मन्त्रविकल्पप्रकरणम् *

षाडुण्यनिश्चितमतिर्गुह्यं गूढप्रचारवान् । मन्त्रयेतेह मन्त्रज्ञो मन्त्रज्ञैः सह मन्त्रिभिः ॥ १ ॥ मन्त्रार्थकुशलो राजा सुखं विजयमश्नुते । विपरीतस्तु विद्वद्भिः स्वतन्त्रोऽप्यवधूयते ॥ २ ॥ दुर्मन्त्रमेनं रिपवो यातुधाना इव क्रतुम् । समन्ततो विलुम्पन्ति तस्मान्मन्त्रपरो भवेत् ॥ ३ ॥ मन्त्रयेतेह कार्याणि सहाप्तेन विपश्चिता । आप्तं मूर्खमनाप्तं च मन्त्रिणं परिवर्जयेत् ॥ ४ ॥ परमण्डलविजयोपायः षाड्गुण्यं सर्गत्रयेणोक्तम् । तत्र विज्ञाततत्स्वरूप- स्यापि मन्त्रहीनस्य तत्प्रयोगासम्भव इति षाड्गुण्यप्रयोगाय तच्छेषभूतो मन्त्रस्य विमर्शोऽस्मिन् सर्गे विधीयत इति प्रकरणक्रमः । यदाह --- षाड्गुण्यनिश्चित- मतिरित्यादि । यथोक्ते षाड्गुण्ये प्रतिष्ठितमतिः । विग्रहे गूढमचारवान् स्वपरे- रविज्ञातचेष्टितत्वात् । इहेति स्वपरमण्डलैविषये, गुह्यं मन्त्रं मन्त्रयेतेति सम्बन्धः । मन्त्रज्ञः तदङ्गतत्त्वपरिज्ञानात् । सह मन्त्रिभिः । तथाहि 'नैकस्य मन्त्रसिद्धिरस्ती- ति विशालाक्षैः' (कौटि. अर्थ. १-१४-११.) ॥ १ ॥ मन्त्रज्ञ इत्यस्य स्थिरीकरणाय श्लोकद्वयमाह - मन्त्रार्थकुशल इत्यादि । विपरीतो मन्त्रार्थाकुशलः । स न केवलं भूतिं न समश्नुते, अवधूयते च विद्वद्भि- मूर्खोऽयमिति । स्वतन्त्रोऽपि स्वयं कार्य प्रवर्तयन्नपि ॥ २ ॥ दुर्मन्त्रम् अविशुद्धमन्त्रम् । यातुधानाः राक्षसाः । ऋतुं यज्ञम् । तस्मान्म- न्त्रपरो भवेत्, तत्पूर्वत्वात् सर्वारम्भाणाम् ॥ ३ ॥ - मन्त्रज्ञैः तेः सह मन्त्रिभिरित्यस्य विशेषमाह – सहाप्तेन विपश्चितेति । आ- तेन मन्त्रज्ञेन च मन्त्रिणा कार्याणि मन्त्रयेतेत्यर्थः । यः पुनरनाप्तः, योऽपि न मन्त्र- ज्ञस्तदुभयमपि त्यजेत् ॥। ४ ॥ १. 'सर्गेऽभिसन्धीय' क ख ग घ पाठः. २. 'तिरिति विग्रहः । गू' च. पाठः ३. 'चे.. टत्वा' च. पाठः. ४. 'ले गुह्यं मन्त्रये' च. पाठः ५. 'ह्युक्तं नै' ङ. पाठः ६. 'क्ष इति ॥ ङ. पाठः. ७. 'वकत्वा' च पाठः.