पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१९२ कामन्दकीय नीतिसारे [एकादशः सर्गः] अवस्थया भेदमुपागतः सन् वाड्गुण्यमित्येव गुरोर्मतं नः ॥ ४० ॥ (इति यानासनद्वैधीभावसंश्रयविकल्पनं नाम षोडशं प्रकरणम् ) इति कामन्दकी नीतिसारे यानासनद्वैधीभावसंश्रयविकल्पनं नाम एकादशः सर्गः । कौटिल्यः । तत्र' 'हीयमानः सन्धीयेत, अभ्युच्चीयमानो विगृह्णीयात्, न मां परो नाहं परमुपहन्तुं शक्त इत्यासीत, गुणातिशययुक्तो यायात्, शक्तिहीनः संश्रयेत, साहाय्यसाध्ये कार्ये द्वैधीभावं गच्छेदिति (कौटि. अर्थ. ६.२.९९) ॥ ४० ॥ (इति यानासनद्वैधीभावसंश्रयविकल्पनं नाम षोडशं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीय नीतिसारपञ्चिकायां जयमङ्गलायां यानासनद्वैधीभावसंश्रयविकल्पनं नाम एकादशः सर्गः ।

  • ' सन्दधीत'

+ 'सहायसाध्यकार्ये' इति च मुद्रितकौटिलीयार्थशास्त्रपाठः.