पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] घोडशं प्रकरणम् । ततो यानासने प्राज्ञैर्विग्रहः परिकीर्त्यते ॥ ३६३ ॥ असन्धाय यतो नास्ति द्वैधीभावः समाश्रयः । ततो द्वावपि तौ प्राज्ञै रूपं सन्धेरुदाहृतौ ॥ ३७३ ॥ + ( सन्धायेति हि यत् प्रोक्तं तत् सन्धे रूपमुच्यते । विगृह्येति च यत् प्रोक्तं विग्रहस्य तदुच्यते ॥ सन्धिश्च विग्रहश्चेति द्वैगुण्यमिति चक्षते ।) एतौ च संश्रयश्चैव त्रैगुण्यमिति चापरे ॥ ३८ ॥ तस्मादन्यं संश्रयेत बाध्यमानो बलीयसा । तत्सन्धेः संश्रयो ह्यन्य इत्युवाच बृहस्पतिः ॥ ३९ ॥ न्याय्यो गुणो विग्रह एक एव सन्ध्यादयोऽन्ये तु गुणास्तदुत्थाः । १६१ असन्धायेति । सन्धिमकृत्वा कथं द्विधा वर्तेत, संश्रयेद् वा, तस्मादुभावपि सन्धे रूपम् । यानासनेभेदा अपि यथास्वमत्रान्तर्भूतत्वादव्यतिभिन्ना एव । सम्भूयप्रसङ्गोपेक्षा अपि यथासम्भवं योज्याः ।। ३७३ ।। तावित सन्धिविग्रह | संश्रयश्व तृतीयः ॥ ३८ ॥ तस्मादन्यमिति । अभियोक्तुरन्यं बलोत्कटं संश्रयेत । सन्धिः पुनरभियोक्रैव बलीयसा सह क्रियते ॥ ३९ ॥ एक एवेति । कौटिल्यदर्शनमेवैतत् । एवं मन्यते - यदि प्राधान्यचिन्तया गुणोपदेशः, तदा विग्रह एवैको गुणः, यस्मादभियोक्ताभियोज्यश्च द्वे प्रकृती इति । तत्र प्राधान्येन प्रथमं विग्रह एव व्याप्रियते, शेषास्तु तदङ्गभूतास्तद्भाविनो गुणीभूता एव । अर्थं स्वकार्यावस्थापेक्षया गुणाख्यानं, तदा षडेव गुणा इत्याह- अवस्थया भेदमुपागतः षाड्गुण्यमिति । तथा चोक्तं ' षाड्गुण्यमेवैतदवस्थाभेदादिति १. 'येत' च. पाठः. २. 'नरूपभे' च. पाठः. ३. 'नोऽनुगु' ङ. च. पाठः. ४. 'थाका' ङ. पाठः, + इदं सार्धं पद्यं व्याख्यात्रा न स्पृष्टम्.