पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१६० कामन्दकीय नीतिसारे [एकादशः नाकारणात् सङ्गमियाज्ज्यायसा वेतरेण वा । क्षयव्ययकृताद् दोषाद् विस्रम्भद्रोहजादपि ॥ ३३ ॥ संयोगं हेतुना गत्वा पितर्यपि न विश्वसेत् । विश्वासमागतं सन्तं प्रायो द्रुह्यन्त्यसाधवः ॥ ३४ ॥ इति षाडुण्यमन्ये तु द्वैगुण्यमेभिचक्षते । यानासने विग्रहस्य रूपं सद्भिः प्रकीर्तितम् ॥ ३५ ॥ सन्धेस्तु सन्धिमार्गज्ञैर्द्वैधीभावसमाश्रयौ । सोऽभिगच्छंश्च तिष्ठंश्च विग्रहं कुरुते यतः ॥ ३६ ॥ सत्याम् । व्यसने वा शत्रोरन्तः कोपादौ प्रहरेद् वा । यदि न निष्पतेद्, आबलीयस्या वृत्त्येति शेषः । मत्तप्रमत्तवदि (स. १०. श्लो. ३७) त्यादिना प्रागुक्तया- बलीयस्या वृत्त्या वा सैंद्या वा सिंहवृत्त्या वा स्वोत्साहमवेक्ष्येत्यर्थः ॥ ३२ ॥ नाकारणादिति । यदा परस्यारिविगृहीतत्वं न पश्येत्, तदा न संश्लिष्यात् । किन्त्वदृष्ट एव कोशादीन् ददत् संश्रयेत् । तथा चोक्तं " कोशदण्डभूमी- नामन्यतमेनास्योपकर्तुमदृष्टः प्रयतेत । महादोषो हि निविष्टबलसमागमो राज्ञा- मन्यत्रारिविगृहीतादि”(कौटि. अर्थ. ७. २.१००. ) ति । इतरेण समहीनाभ्यां वा । दोषादपि न सङ्गमियादिति सम्बन्धः । विस्रम्भद्रोहजात् विस्रम्भघातसमुत्थात् ॥ ३३ ॥ हेतुना कारणेन । पितर्यपि न विश्वसेत् किमुत शत्रुषु । विश्वासमा विश्वस्तम् ॥ ३४ ॥ इदानीं श्लोकसप्तकेन षाडुण्योपसंहारपूर्व मतभेदं दर्शयति – पाडण्यमित्यादि । प्रतिपादितमिति शेषः । द्वैगुण्यमिति सन्धिर्विग्रहश्च द्वावेव गुणौ । शेषाणामत्रैवान्तर्भावात् कारणात् । तदेव दर्शयति यानासने इत्यादिना ॥ ३५ ॥ सन्धेः परं रूपं द्वैधीभावसंश्रयौ । स इति विजिगीषुः । अभिगच्छंश्चेति । अपरभूमौ गच्छन् देशविलोपादिनोपकारलक्षणं विग्रहं च कुरुते । तिष्ठन् स्वभूमौ परमभिहन्तुमशक्तोऽप्यतिसन्धातुकामः । स्वदण्डैर्वा कर्शयन् विगृह्णाति ॥ ३६ ॥ १. 'मिति च' ख.ग. पाठः २. 'द्वयं सन्धेः परं स्मृतम्' क. पाठः ३ 'ना पराप' ङ. पाठः.