पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] षोडशं प्रकरणम् । १५९ तद्दर्शनोपास्तिकता नित्यं तद्भावभाविता । तत्कारिता प्रश्रयिता वृत्तं संश्रयिणां स्मृतम् ॥ २८ ॥ विनीतवत् तत्र कालं गमयित्वा गुराविव । तत्सङ्गात् प्रतिपूर्णः सन् क्रमेण स्ववशो भवेत् ॥ २९ ॥ ददद् बलं वा कोशं वा भूमि वा भूतिसम्भवाम् | आश्रयेदभियोक्तारं विसन्धिरनपाश्रयः ॥ ३० ॥ सर्वाणि चैतान्यातः सन् दद्यात् वाणार्थमात्मनः । युधिष्ठिर इवाप्नोति पुनर्जीवन् वसुन्धराम् ॥ ३१ ॥ निष्पतेदात्मलाभे वा व्यसने वा रिपोः श्रियः । हरेद्वाबलीयस्या सैंह्या वा काल उत्थितः ॥ ३२ ॥ समाश्रितस्य वृत्तिमाह --- तद्दर्शनेत्यादि । तद्दर्शनायोपास्तिः उपासना यस्येति विग्रहः । पश्चात् कप्रत्ययान्तस्य भावप्रत्ययः । तद्भावभाविता तदभिप्रायानुकूलता । तत्कार्यकारिता तदर्थकारिता । प्रश्रयिता सादरता ॥ २८ ॥ विनीतवत् विनीत इव । तत्सङ्गात् प्रतिपूर्णः तत्संश्रयादभ्युच्चितः । स्व- वशो भवेत् स्वकर्मप्रधानः स्यात् ॥ २९ ॥ बलं दण्डः । भूतिसम्भवां गुणवतीं भूमिम् । विसन्धिरनपाश्रय इति । यदा बलोत्कटो नास्ति, तदा निराश्रयोऽभियोका सह सन्दध्यात् । तेनापि विस- न्धिश्वेदॆतिघोरमेवाश्रयेत् ॥ ३० ॥ कस्माद् बलादीनि दद्यादित्याह --- सर्वाणीत्यादि । त्राणार्थमात्मनः तस्य प्रधानत्वात्, जीवर्तैः पुनरावृत्तिदर्शनात् । यदाह - युधिष्ठिर इवेति । युधिष्ठिरो हि द्यूतेन हृतराज्योऽपि जीवन् पुर्नरवाप्तवान् राज्यमित्यतिप्रसिद्धम् ॥ ३१ ॥ संश्रितः कदा निर्गच्छेदित्याह - निष्पतेदिति । आत्मलाभे स्ववृद्धौ ३. 'वृत्त्या वाथ ब' ख.ग. ५. 'दभियोक्त्तारमे' ङ. च. पाठः. ८. 'नस्तदेवा' ङ. च. पाठः. १. 'त्प्रसङ्गात् समापू' क. पाठः. २. 'द्याद् व' क. पाठः. ४. 'नोपास्तिः सेवावसरो य' क ख ग घ पाठः. ६. 'तश्च पु' च. पाठः ७. 'हरित' ङ. च पाठः. पाठ:.