पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१५८ कामन्दकीय नीतिसारे [एकादश: यापयेद् यत्नमास्थाय सन्निकृष्टतरस्तयोः । उभयोरपि सम्पाते सेवेत बलवत्तरम् ॥ २४ ॥ यदा द्वावपि नेच्छेतां संश्लेषं जातसंविदौ । तदोपसर्पस्तच्छत्रुमधिकं वा समाश्रयेत् ॥ २५ ॥ द्वैधीभावो द्विधा प्रोक्तः स्वतन्त्रपरतन्त्रयोः । स्वतन्त्र उक्तो ह्यन्यस्तु यः स्यादुभयवेतनः ॥ २६ ॥ उच्छिद्यमानो बलिना निरुपायप्रतिक्रियः । कुलोद्गतं सत्यमार्यमाश्रयेत बलोत्कटम् ॥ २७ ॥ यापयेद् आत्मानमिति शेषः । सन्निकृष्टतरस्तयोस्तदेशाक्रान्त्या द्वाभ्यामुपहितत्वात् । सम्पात इति स्वदेशात् सम्भूय विजिगीषुदेशमभिपततोरित्यर्थः । बलवत्तरं द्वयोरेवान्यतरम् ॥ २४ ॥ जातसंविदाविति उच्छेत्तव्यो ऽयमस्माभिर्न सन्धातव्य इति कृतसं-ित्कौ । तच्छत्रुमिति तयोः शत्रुम् । अधिकं वा अशत्रुमपि विशिष्टबलम् ॥ २५॥ 1 - द्विधा प्रोक्तः स्वतन्त्रपरतन्त्रयोश्च भेदात् । तत्र स्वतन्त्र उक्तः । अयमेव विजिगीषुः, तस्य स्वकर्मप्रधानत्वात् । अन्यस्तु परतन्त्रः । कोऽसावित्याह – यः स्यादुभयवेतन इति । यो याभ्यां यत्र प्रणिहितः, स ताभ्यां वेतनमाददान उभयवेतनः । तयोरुभयोर्वर्तमानः परकर्मप्रधानत्वात् परतन्त्रः ॥ २६ ॥ - संश्रयमधिकृत्य श्लोकाष्टकमाह उच्छिद्यमानः स्वदेशादुत्थाप्यमानः । निरुपायप्रतिक्रिय इति उपायेन प्रतिक्रिया उपायप्रतिक्रिया सा शक्तिहीनत्वाद् व्यपेता यस्येति विग्रहः । तथा युक्तं " शक्तिहीनः संश्रयेते" (कौटि. अर्थ. ७. ९८. ९९.)ति । कुलोद्गतं राजवजिकम् । आर्य सद्वृत्तम् । बलोत्कटं शत्रोर्बलाधिकम् ॥ २७ ॥ १. 'तो' क. पाठः, 'दा समापतेच्छ' ख-ग. पाठः. २. 'येन य' क ख ग घ पाठः. ३. 'तन्त्रप्र' क ख ग घ पाठः