पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] षोडश प्रकरणम् । उपेक्षितस्य वान्यैस्तु कारणेनैव केनचित् । आसनं रुक्मिण इव तद्धर्युपेक्षासनं स्मृतम् ॥ २२ ॥ बलिनोर्द्विषतोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीभावेन वर्त्तेत काकाक्षिवदलक्षितः ॥ २३ ॥ १५७ स्वमुद्यानं दर्शयामास । तत्र पारिजातमञ्जरीं दृष्ट्वा सत्यभामया प्रणयादभ्यर्थिता मानुषीत्यवज्ञया न ददौ । तदीर्ष्यया च जातकोपया तथा प्रोत्साहितो विष्णुर्नन्दनं वनं गत्वा तदारक्षकान् निहत्य पारिजातकमेवोत्पाट्य द्वारकायां रोपितवान् । इन्द्रोऽपि देवकार्यमनेनानेकं कर्त्तव्यं, बलवांश्चेति विचिन्त्य तमुपेक्ष्य स्थितवान् इत्येकः प्रकारः ॥ २१ ॥ द्वितीयमाह – उपेक्षितस्य वान्यैरिति । यदा द्वयोरमित्रयोः परस्परमभियुक्तिकृतोः कार्यसम्भववशाद् यथास्वं पक्षमाश्रितेषु शत्रुविजिगीषुसमवायार्थिषु ताभ्यां गौरयुक्तोऽयमित्यनेन प्रकारेणोभाभ्यामप्युपेक्षितो न समवेतः, तदास्योपेक्षितस्य यदासनं, तदुपेक्षासनम् । रुक्मिण इवेति कुरुपाण्डवानामुद्यमे यथाप्रयोजनं द्विधा समाश्रितेषु सामवायिकेषु सर्वक्षत्रियेषु रुक्मी क्रथकैशिकेप्वेकाक्षौहिणी- परिवारः सन् शत्रुभ्यो भयात् कुरुपाण्डवान् साहाय्यदानेच्छया प्रत्येकमुपगम्यो- वाच 'यदि भीताः स्थ साहाय्यं करिष्यामि रण' इति । तैश्चासौ मन्दप्रयोजनोऽयं युयुत्सुरित्युपेक्षितो निवृत्यासितवान् ॥ २२ ॥ द्वैधीभावमधिकृत्य श्लोकचतुष्टयमाह - - बलिनोरित्यादि । तत्र कौटिलीये द्विधा द्वैधीभाव उक्तः । तथा षाडुण्यसमुद्देश उक्तः “सन्धिविग्रहोपादानं द्वैधी- भाव” इति । अवस्था चास्योक्ता "सहायसाध्ये कार्ये द्वैधीभावं गच्छेदि" (कौटि. अर्थ. ७-१-९८,९९.)ति । तर्थो संश्रयवृत्तावुक्तं "पार्श्वस्थो वा बलस्थयोरासन्न- भयात् प्रतिकुर्वीत, दुर्गापाश्रयो वा द्वैधीभूतस्तिष्ठेत्, “सन्धिविग्रहहेतुभिर्वा चेष्टेते”(कौटि. अर्थ. ७-२- १०० ) ति । इह तु सन्धिविग्रहयोरुक्तत्वात् तत्समु दायोऽपि द्वैधीभावोऽर्थादुक्त एवेति नोक्तम् । इतरं तु द्वैधीभावमभिसन्धायाह - बलिनोर्द्विषतोरिति । वाचात्मानं समर्पयन् इदं राज्यमहं च त्वदर्पण इति द्वैधी- भावेन उभयत्रात्मार्पणेन दुर्गापाश्रयो वर्त्तेत । काकाक्षिवदलक्षितः काकदृष्टि- काप्युभयत्र गोलके वर्त्तमाना नोपलक्ष्यते । द्वैधीभावश्चायमुभयाश्रयः संश्रयश्चै- काश्रय इत्यनयोर्भेदः ॥ २३॥ १. ‘चान्येन का’ क. पाठः २. 'दु' क. पाठः ३. 'भ्यामस्यैव गौ' क ख. पाठः, 'भ्याम- स्यैव यु' ग घ. पाठः. ४. 'था तत्सं' क ख ग घ पाठः. $ 'दुर्गपाला' इति,

  • 'सन्धिविग्रहक्रमहे' इति च मुद्रितकौटिलीयार्थशास्त्रपाठः,