पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१९६[ एकादशः कामन्दकीय नीतिसारे उदासीने मध्यमे च समानप्रतिशङ्कया । एकीभूय व्यवस्थानं सम्भूयासनमुच्यते ॥ १८ ॥ 9 उभयारिं हि वाञ्छन्तं विनाशमुभयोरपि । सम्भूयैनं प्रतिव्यूहेदधिकं सर्वसम्पदा ॥ १९ ॥ यियासोरन्यमन्यत्र प्रसङ्गेन हि केनचित् । आसनं यत् तदर्थज्ञैः प्रसङ्गासनमुच्यते ॥ २० ॥ अथोपेक्ष्यारिमधिकमुपेक्षासनमुच्यते । उपेक्षां कृतवानिन्द्रः पारिजातग्रहं प्रति ॥ २१ ॥

तत्रस्थान् निवातकवचान् दीर्घकालं योधितवान् । तयोश्च भयोर्विग्रहे क्षीयमाणयोर्ब्रह्मा शिरोवेदनया समुपलब्धवृत्तान्तो विफलत्वमस्मद्वरप्रदानस्य मा भूदिति विचिन्त्यागर्त्ये दैत्यान् विग्रहान्न्यवर्त्तयत् । रावणश्च सन्धित्सुस्तमेव ब्रह्माणं प्रातिभाव्ये स्थापयित्वा तैः सन्धायासितवान् ॥ १७ ॥ उदासीने मध्यमे चेति विषयसप्तमी । समानप्रतिशङ्कयेति अरिविजिगीष्वोस्तुल्यया मध्यमोदासीनविषयप्रतिशङ्कयेत्यर्थः । एकीभूयेति शत्रुणा ॥ १८॥ तदेव स्फुटयन्नाह – उभयारिमित्यादि । यदा मध्यमोदासीनयोरन्यतरो विजिगीषु विनाशयितुं वाञ्छति तदायमुभयोरप्यनयोररिर्भवति । तमुभयारिमधिकं शत्रुणा सम्भूय प्रतिव्यूहेत् ॥ १९ ॥ 1 यियासोरिति अन्यं शत्रु यातुमिच्छोर्विजिगीषोः । अन्यत्र यातव्यात् । प्रसङ्गेन हीति अन्तरा मित्रोत्सवादिप्रसङ्गेन ॥ २० ॥ अथोपेक्ष्येति । स्थानमासनमुपेक्षणं चेत्यासनपर्यायाः । तत्र गुणैकदेशे स्थानम् । स्ववृद्धिप्राप्त्यर्थमासनम् । उपायानामप्रयोग उपेक्षणम् । तत्र बलवन्तमरिमुपायानाम् अप्रयोगपूर्वकमुपेक्ष्य यत् स्ववृद्धिप्राप्त्यर्थमासनं, तदुपेक्षासनमुच्यत । पारिजातग्रहं प्रतीति । विष्णोः प्रियां सत्यभामां पत्या स्वगृहमागतां शची १. 'विधित्सन्तं' ख-ग. पाठः. ४ 'त्य तौ द्वौ वि' क ख ग घ पाठः, २. 'सङ्घधर्मणा' क पाठः, ३. 'केवलम् ।' क. पाठः. ५. 'दु' क, ख, ग, घ, पाठः