पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ]१५५

षोडशं प्रकरणम् । अन्योन्याक्रान्तिकरणं विगृह्यासनमुच्यते । अरिं विगृह्य #वास्थानं विगृह्यासनमुच्यते ॥ १३ ॥ यदा दुर्गस्थितः शत्रुर्ग्रहीतुं न च शक्यते । विगृह्यैनं तदासीत हेत्वास्यासारवीवधौ ॥ १४ ॥ विच्छिन्नवीवधासारं प्रक्षीणयवसेन्धनम् । विरज्यमानप्रकृतिं कालेनैव वशं नयेत् ॥ १५ ॥ अरेश्व विजिगीषेोश्च विग्रहे हीयमानयोः । सन्धाय सैमवस्थानं सन्धायासनमुच्यते ॥ १६ ॥ निवातकवचैः सार्धं रावणः शत्रुरावणः । ब्रह्माणमन्तरे कृत्वा सन्धायासनमास्थितः ॥ १७ ॥ - - तदेव श्लोकदशकेन दर्शयति — अन्योन्याक्रान्तिकरणमित्यादि । आ- कान्तिरतिसन्धानम् । इदमुक्तं भवति अरिविजिगीष्वोः परस्परमतिसन्धानपूर्वकं यदासनकरणं, तद् विगृह्यासनमित्येकः प्रकारः । द्वितीयमाह -- अरिं विगृह्य वेति । देशविलोपादिना शत्रोरपकृत्येत्यर्थः । पूर्वत्रोभयोर्व्यापारः, इह तु विजिगीषेोरेवेति विशेषः ॥ १३ ॥ कदा विगृह्यासनमित्याह — यदेत्यादि । ग्रहीतुं नैव शक्यते, शुद्धेन विग्रहेण तदासीत । आसारवीवधाविति । 'धान्यादेववधः प्राप्तिरासारस्तु सुहृद्बलम्' (सर्ग. १४. लो. २७.) इति वक्ष्यति । उपलक्षणार्थं चैतत् । तेन यवसेन्धनादि चवीवध इति बोध्यम् ॥ १४ ॥ एवञ्च विगृह्यासने सति क्रमेण शत्रुर्विरज्यमानप्रकृतिर्वध्यो भवति । यदाह- विच्छिन्नेत्यादि ॥ १५ ॥ हीयमानयोरिति तुल्यबलत्वात् क्षीयमाणयोः ॥ १६ ॥ निवातकवचैः सार्धमिति । रावणो हि ब्रह्मवरप्रदानाल्लब्धत्रिलोकविजयो लोकत्रयं जित्वा लब्धोत्साहः पातालं जेतुं प्रविष्टः । तत्र भोगवती नाम पुरी । १. 'छित्वा' क. पाठः. २. 'यादव' क. पाठः. ३. 'योरिति ॥ ' क. ख. ग. घ. पाठः. ४. ' हि तुल्यबलत्वाद् ब्रह्मवरप्रसादाल' च पाठः.

  • 'चा' इति मूलकोशपाठः.