पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१९४ कामन्दकीय नीतिसारे [ एकादशः स्त्रियोऽथ पानं मृगया तथाक्षा दैवोपघातश्च बहुप्रकारः । इति प्रदिष्टं व्यसनं ह्यनेन समन्वितो यो व्यसनी स गम्यः ॥ ११ ॥ परस्परस्य सामर्थ्याविघातादासनं स्मृतम् । अरेश्व विजिगीषोश्च तत् पञ्चविधमुच्यते ॥ १२ ॥ हितवान् । सोऽपि तथेति प्रतिज्ञाय मातलिसनाथं रथमारुह्य तानभियोक्तुं प्रयातः । अभियुक्तेषु तेषु तदनुबलाधानाय हिरण्यपुरवासिनः कालकञ्जनामानोऽसुरा बलीयांसः समायाताः । तान् सम्प्राप्य निवातकवचाः प्रत्यभियुयुजुः । ततस्तानुपेक्ष्य तत्सुहृद एव कालकञ्जानभियोक्तुं प्रयातस्तानभियुज्य निजघान, पश्चात् तानप्रीति ॥ १० ॥ कः पुनर्यातव्य इत्याह-- स्त्रिय इत्यादि । व्यसनी यातव्यः । व्यसनं च दैवमानुषभेदेन द्विविधम् । तत्र मानुषं द्विविधं कामजं कोपजं च । तत्र स्त्रियः पानं मृगया द्यूतमिति कामजम् । वाक्पारुष्यं दण्डपारुष्यमर्थदूषणमिति कोपज-मिति । तदिह 'कामात् क्रोधो हि जायत' (भ.गी. २. ६२.) इति दर्शनार्थ साक्षात् कोपजं नोक्तम् । दैवोपघातश्चेति । स चाग्न्युदकदुर्भिक्षमरकादिभेदेन बहु- प्रकारः । इति प्रदिष्टमिति । इतिशब्द आद्यर्थे । अनेन कोपजमप्युक्तं वेदितव्यम् ॥ ११ ॥ आसनमधिकृत्याह --- परस्परस्येत्यादि । अरेश्च विजिगीषोश्च परस्परस्येति सम्बन्धः । सामर्थ्याविघातादिति । यदा शत्रुर्विजिगीषोर्विजिगीषुश्च शत्रोर्विग्रहे सामर्थ्यमुपसोढुं समर्थः, तदा यदुपेक्षणं, तदासनम् । तथा युक्तं "न मां परो नाहं परमुपहन्तुं शक्त इत्यासीत” (कौटि. अर्थ. ७. १. ९८, ९९.) इति । तत् पञ्चविधं यानवत् ॥ १२ ॥ १. 'र्थ्यवि' ख.ग. पाठः. २. 'सारथिं र' च. पाठः . सोढुं वा न स ङ. च. पाठः.

  • 'भि' इति मुद्रितभगवद्गीतापाठः.

३. ‘हेणासामर्थ्यं विहन्तुमुपहन्तुं