पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ १५३ सर्गः ] षोडशं प्रकरणम् । ( + उभयत्र तु या यात्रा द्वयोः प्रकृतिनाशने । सम्भूययानं तत् प्रोक्तं रामसुग्रीवयोरिव ॥ "अल्पसारानुपादाय प्रतिज्ञाय फलोदयम् । गम्यते यत् परान् जेतुं सम्भूयगमनं हि तत् ॥ ) अन्यत्र प्रस्थितः सङ्गादन्यत्रैव हि गच्छति । प्रसङ्गयानं तत् प्रोक्तमत्र शल्यो निदर्शनम् ॥ ८ ॥ रिपुं यातस्य बलिनः सम्प्राप्यारिकृतं फलम् । उपेक्ष्य तैन्मित्रयानमुपेक्षायानमुच्यते ॥ ९ ॥ निवातकवचान् हित्वा हिरण्य पुरवासिनः । उपेक्षायानमास्थाय निजघान धनञ्जयः ॥ १० ॥

अन्यत्र प्रस्थित इति । द्वयोर्यातव्ययोरेकमभीष्टमभियोक्तुं प्रस्थितो यदा पथि कुतश्चित् प्रसङ्गादितरं प्रति याति, तदास्य प्रासङ्गिकं गमनम् । यथा कुरु- पाण्डवानामुद्योगे मद्रराजस्य पाण्डवमातुलस्य शल्यस्य तदनुबलाधानार्थमेकयाक्षौहिण्या सह पाण्डवार्थे प्रस्थितस्य तस्य पथि दुर्योधनेनात्मनिवेदनात् पूर्वकेणोपकारेण हृतचेतसस्तत्प्रसङ्गात् कुरुषु लब्धशरव्यस्य पाण्डवान् प्रति गमनं दर्शयति - अत्र शल्यो निदर्शनमिति ॥ ८ ॥ रिपुं यातस्येति रिपुं प्रति यातस्य । विजिगीषोरिति शेषः । बलिन इति द्वितीयाबहुवचनम् । इदमुक्तं भवति - यं रिपुमभियोक्तुं प्रयातो विजिगीषु- स्तदनुबलाधानार्थं तत्सुहृदोऽपि येऽन्ये बलिनः समायातास्तान् सम्प्राप्य यदरिणा कृतं फलं प्रत्यभियोगलक्षणं तदुपेक्ष्य तन्मित्रेषु च बलिषु सम्प्राप्तेषु यद् यानं, तदुपेक्षायानम् ॥ ९ ॥ तदेव दृष्टान्तेन स्फुटयन्नाह --- निवातकवचानिति । शक्रः स्वर्गतमर्जुनं दिव्यास्त्राण्यधिगमय्य गुरुदक्षिणापदेशेन निवातकवचनाम्नोऽसुरान् जहीत्यभि- १. 'वापि ग' ख. ग. पाठः २. 'पोः' क. पाठः ३. 'ते हि तद्यान' क. पाठः. ४. 'ना- ते परिधान ' ङ. च. पाठः. ५. 'चारेणापकृष्टचे' ङ. च. पाठः ६. 'ध्याप्य गु' च पाठः. इदं क-पुस्तके न दृश्यते व्याख्यात्रा च न स्पृष्टम् . * इदमपि व्याख्यात्रा न स्पृष्टम् .