पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१५२ कामन्दकीय नीतिसारे [एकादश: ( सन्धाय सार्धमरिभिश्चेष्टासंरोधकारिभिः । यदन्यत्र रिपौ यानं सन्धायगमनं हि तत् ॥ ) सन्धायान्यत्र या यात्रा पाणिग्राहेण शत्रुणा । सन्धायगमनं प्रोक्तं तज्जिगीषोः फलार्थिनः ॥ ५ ॥ एकीभूय यदेकत्र सामन्तैः सामवायिकैः । शक्तिशौचयुतैर्यानं सम्भूयगमनं हि तत् ॥ ६ ॥ उभयारौ तु वा यानं द्वयोः प्रकृतिनाशने । सम्भूयगमनं प्रोक्तं हनूमत्सूर्ययोरिव ॥ ७ ॥ सन्धाय पाणिग्राहेण शत्रुणेति सम्बन्धः । अन्यत्र या यात्रा पार्ष्णिग्राहमित्रे यद् गमनम् । फलार्थिन इति । मा मे दीर्घयात्रां गतस्य पाणि ग्रहीष्यतीत्येवं फलार्थिनः ॥ ५॥ एकीभूयेति । यदा न शक्यमेकेन यातुम्, अवश्यं च यातव्यं तदा सामन्तैरेकीभूय यद् गमनं, तत् सम्भूययानम् । एकत्रेत्येकस्मिन् यातव्ये । सामवायकैः समवाय प्रयोजनैरेकमतिभिः । शक्तिशौचयुतैरिति । शक्तिमान् हि पार्ष्णिग्रहणे साहाय्यदाने च शक्तः, शुद्धश्च सिद्धौ च यथास्थितकारी भवतीत्येकः प्रकारः ॥ ६ ॥ द्वितीयमाह – उभयारौ तु वेति । अरेर्विजिगीषोश्वोभयोर्यः शत्रुस्तस्मिन् द्वयोरपि सम्भूय यानम् । प्रकृतिनाशन इति उभयारिप्रकृतिविलोपादिनिमित्तम् । हनूमत्सूर्ययोरिवेति । हनूमान् किल बालावस्थायामालोहितं भानुमन्तं दृष्ट्वा किमिदमिति चापलादुत्प्लुत्य हस्ताभ्यां गृहीतवान् । तत्काल एव च राहुः सूर्य ग्रसितुमाजगाम । तद्भसनार्थं च तं मोचयितुं प्रयतमानं दृष्ट्वा हनूमान् किमिदमपरमिति भानुं मुक्वा तमेवाभ्यधावत् । आदित्येनापि ज्ञातं ममाप्ययं राहुः शत्रुः । अतोऽस्य हनूमतः साहायकं प्रतिपद्येऽहमिति । सोऽपि तमभिजगामेत्येतावदत्रौपम्यकम् ॥ ७ ॥ १. 'शौर्यशक्तिगुणैर्या' क. पाठः, पाठः, ३. 'दुपप्लु' क ख ग घ पाठः. 'तमुद्गच्छन्तं भा' च. 'शक्तिकोशयु' ख. पाठः २, ४. ये गृहीतमि' क ख ग घ पाठः.