पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथैकादशः सर्गः ।

  • १६ यानासनद्वैधीभावसंश्रयविकल्पप्रकरणम् *

उत्कृष्टबलवीर्यस्य विजीगीषोर्जयैषिणः । गुणानुरक्तप्रकृतेर्यात्रा यानमिति स्मृतम् ॥ १ ॥ विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः । उपेक्षा चेति निपुणैर्यानं पञ्चविधं स्मृतम् ॥ २ ॥ विगृह्य याति हि यदा सर्वाञ्छत्रुगुणान् बली । विगृह्ययानं यानज्ञास्तदाचार्याः प्रचक्षते ॥ ३ ॥ अरिमित्राणि सर्वाणि स्वमित्रैः सर्वतो बलात् । विगृह्य वारिगमनं विगृह्यगमनं स्मृतम् ॥ ४ ॥ सन्धिविग्रहौ प्रधानगुणौ सर्गद्वयेनोपदिश्येदानीमस्मिन् सर्गे यानासनद्वैधी- भावसंश्रयविकल्पांनाह । तत्र यानमधिकृत्याह – उत्कृष्टेत्यादि । बलं शक्तिदे- शकालानां, वीर्यम् उत्साहः, तदुभयं परापेक्षयोत्कृष्टं यस्य तस्य । जयैषिणः, अन्यथा न यातव्यं, जेतुमनिच्छतो यानासम्भावात् । गुणानुरक्तप्रकृतेरिति । स्वामि- गुणैः प्रकृतैरनुरक्तामात्यादिप्रकृतेरित्यर्थः । यथा ह्युक्तं “गुणातिशययुक्तो यायाद्” (कौटि. अर्थ. ६-२-९९) इति ॥ १ ॥ तद् यानं पञ्चविधमाह -- विगृह्येत्यादि ॥ २ ॥ तानि यथाक्रमं श्लोकाष्टकेनाह - विगृह्य यातीति । गुणशब्देनात्र द्रव्यप्रकृतयो द्रष्टव्याः, तासामप्रधानत्वात् । स्वामिप्रकृतिरेव प्रधानम् । यदा पश्चात् स्थायिनः शत्रोः सर्वा द्रव्यप्रकृतर्दाहविलोपादिना बलाद् विगृह्य पुरस्ताच्छत्रुं याति, तदा विगृह्ययानमित्येकः प्रकारः ॥ ३ ॥ 1 द्वितीयमाह - अरिमित्राणीति । अरेर्यातव्यस्य मित्राणि । सर्वाणीति पुरस्तात् पश्चाच्च यानि स्थितानि । स्वमित्रैः पुरः पृष्ठतश्च स्थितैः करणभूतैः । बलाद् विगृह्य वेति सम्बन्धः । सर्वतः उभयसंपीडनेनेत्यर्थः ॥ ४ ॥ १. 'बा' मूलकोशेषु पाठः.