पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ दशमः सर्गः] १९० कामन्दकीय नीतिसारे इति स्म दोषान्वितमाशु विद्विषं त्रिशक्तियुक्तो विजिगीषया व्रजेत् । अतोऽन्यथासाधुजनस्य सम्मतः करोत्यविद्वानुपघातमात्मनः ॥ ४३ ॥ समन्वितो राज्यपदोन्निनीषया मनीषयान्वीक्षितमण्डलक्रियः । इमं नृपो विग्रहमार्गमास्थितः स्थिरोद्यमः सम्प्रयतेत सिद्धये ॥ ४४ ॥ (इति विग्रहविकल्पो नाम पञ्चदशं प्रकरणम् ) इति कामन्दकी नीतिसारे विग्रहविकल्पो नाम दशमः सर्गः । इति स्मेति । इतिशब्दः प्रकारे, एवम्प्रकारैर्दोषैरन्वितमिति । त्रिशक्ति- युक्तः मन्त्रप्रभावोत्साहशक्तियुक्तः । विजिगीषया आपातविग्रहेण जेतुमिच्छया - अतोऽन्यथेति । दुष्प्रसाधं शक्तिहीनो विजिगीषया व्रजन्नित्यर्थः । असाधुजनस्य सम्मतः । वृद्धजनाभिसम्मतस्तु वृद्धबुद्धित्वात् । अतश्चाविद्वानिति विशेषणमर्थवत् ॥ ४३ ॥ इदानी प्रकरणार्थमुपसंहरति-- समन्वित इत्यादिना । राज्यपदोन्निनीषया समन्वित इति सम्बन्धः । मनीषया प्रज्ञया । अन्वीक्षितमण्डलक्रियः समहीनज्यायस्त्वापेक्षया विभावितमण्डलव्यापारः । इममिति यथोक्तं विग्रहमार्गम् । स्थिरोद्यमः असमाप्यानुपरतः । अन्यथा ह्यनन्तरं दृष्टोत्साहस्य परस्मादेव प्रत्यवायः स्यात् ॥ ४४ ॥ ( इति विग्रहविकल्पो नाम पञ्चदशं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीय नीतिसारपञ्चिकायां जयमङ्गलायां विग्रहविकल्पो नाम दशमः सर्गः । १. 'नेष्वसत्तमः क' ख-ग. पाठः. २. 'ह्येतैरन' क ख ग घ पाठः.