पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] पञ्चदर्श प्रकरणम् । १४९ काले प्राप्ते तु मतिमानुतिष्ठेत् क्रूरसर्पवत् । काले सहिष्णुर्गिरिवदसहिष्णुश्च वह्निवत् ॥ ३९ ॥ * स्कन्धेनापि वहेत् काले प्रियाणि समुदाहरन् । सम्प्राप्ते चैव काले तु भिन्द्याद् घटमिवाश्मनि ॥ नित्यं स्वार्थपरो लोकः स्वार्थसिद्धिर्यथा भवेत् । तथा तस्य प्रतीकारं यथोक्तं समुपाचरेत् ॥ प्रसादवृत्त्याहितलोकवृत्तया प्रविश्य शत्रोर्हृदयं निरन्तरम् । नयाग्रहस्तेन हि कालमास्थितः प्रसह्य कुर्वीत कचग्रहं श्रियः ॥ ४० ॥ कुलोद्गतं सम्यगुदारविक्रमं स्थिरं कृतज्ञं मतिमन्तमूर्जितम् । अतीव दातारमुपेतवत्सलं सुदुष्प्रसाधं प्रवदन्ति विद्विषम् ॥ ४१ ॥ असत्यता निष्ठुरताकृतज्ञता भयं प्रमादोऽलसता विषादिता । वृथाभिमानोऽपि च दीर्घसूत्रता तथाङ्गनाक्षादि विनाशनं श्रियः ॥ ४२ ॥ काले च क्रूरसर्पवद् दशेत् । सहिष्णुर्गिरिवदप्रकाशि (ते + +श : ताशय) विकारत्वात् । असहिष्णुश्च वह्निवत् प्रदर्शिततेजस्त्वात् ॥ ३९ ॥ प्रसादवृत्त्येति प्रसन्नया वृत्त्या । आहितलोकवृत्तया प्रदर्शितलोकव्यवहारया । नयो विग्रहाख्यो गुणः । प्रसह्येति प्रकाशयुद्धं दर्शयति । अयं च बलीयसि कोऽपि विधिः आपातविग्रहेण दुष्प्रसाधे शत्रौ वेदितव्यः ॥ ४० ॥ कोऽसावित्याह - कुलोद्गतमित्यादि ॥ ४१ ॥ आपातविग्रहसाध्यतां शत्रोर्दर्शयितुमाह--असत्यतेत्यादि । अङ्गनाक्षा- दीति । आदिशब्दाद् मृगयापानादिव्यसनसंग्रहः ॥ ४२ ॥ १. यात्रया' ख ग पाठः २. 'त प्रकाशित प्रकाश' च पाठः ३. 'शं द' क ख ग घ. पाठः. * स्कन्धेनेत्यादि श्लोकद्वयं व्याख्यात्रा न स्पृष्टभू