पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१४८ कामन्दकीय नीतिसारे [दशमः सर्वसम्पत्समे शत्रावुपायान् निक्षिपेद् बुधः । उपायैरप्रतिव्यूढे समे दण्डः प्रशस्यते ॥ ३३३ ॥ आगतं विग्रहं विद्वानुपायैः प्रशमं नयेत् । विजयस्य ह्यनित्यत्वाद् रभसेन न सम्पतेत् ॥ ३४३ ॥ समाक्रान्तो बलवता काङ्क्षन्नभ्रंशिनीं श्रियम् । श्रयेत वैतसीं वृत्तिं न भौजङ्गीं कदाचन ॥ ३५३ ॥ क्रमाद् वेतसवृत्तिः सन् प्राप्नोति महतीं श्रियम् । भुजङ्गवृत्तिराप्नोति वधमेव तु केवलम् ॥ ३६३ ॥ मत्तप्रमत्तवत् स्थित्वा ग्रसेतोत्लुत्य पण्डितः । अपरिभ्रश्यमानं हि क्रमप्राप्तं मृगेन्द्रवत् । ३७३ ॥ कौर्मं सङ्कोचमास्थाय प्रहारमपि मर्षयेत् ॥ ३८ ॥ हीनेन विग्रहमुक्ता समेनापि श्लोकद्वयेन वृत्तिमाह - सर्वसम्पदित्यादि । विग्रहस्य प्रस्तुतत्वात् सर्वा सम्पद् विग्रहस्येति सत्यां विग्रहसम्पदि । सोऽपि तावत् सामादीन् प्रयुञ्जीत । समेन हि विग्रहस्य सुन्दोपसुन्दयोरिवोभयतः क्षय- कारित्वात् । अप्रतिव्यूढे अप्रतिविहिते । दण्डो विग्रहः ॥ अस्यैव पूर्वार्ध स्फुटीकुर्वन्नाह - आगतमित्यादि ॥ 1 ३३३ ॥ २४३ ॥ 1 अभ्रंशिनीम् अविनाशिनीम् । वैतसीं भौजङ्गीमिति । वेतसो बलीयसा नदीजवेनाक्रम्यमाणो नमति । भुजङ्गश्च तृणाग्रस्पृष्टोऽपि स्फटाटोपैरुद्धावति ॥ ३५३ ॥ प्रवृत्तिद्वयस्य फलमाह - क्रमादित्यादि । क्रमात् प्राप्नोति कालेनेत्यर्थः । वधमेव केवलं तदात्वे । तस्माद् वैतसीं वृत्तिमाश्रित्य विगृह्णीयात् ॥ ३६३ ॥ कथमिवेत्याह- मत्तप्रमत्तवत् स्थित्वेत्यादि । वेतसवृत्त्यसंश्रितोऽप्यात्मनः कृतकं व्यसनं प्रकाश्य जातविस्रम्भं क्रमप्राप्तत्वादपरिभ्रश्यमानं हन्यात् ॥ ३७३ ॥ कौर्म सङ्कोचमिति । कूर्मवदङ्गानि गूहयित्वाकाले परपीडामपि सहेत ॥ ३८ ॥ १. ‘ढैः’क. पाठः.