पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ]१४७ पञ्चदशं प्रकरणम् । उपनामि यदा दैवं सुव्यक्तमुपलक्षितम् । परस्य विपरीतं तु तदा विग्रहमाचरेत् ॥ २९३ ॥ मित्रमाक्रन्द आसारो यदा स्युर्दृढभक्तयः । परस्य विपरीताश्च तदा विग्रहमाचरेत् ॥ ३०३ ॥ भूमिर्मित्रं हिरण्यं च विग्रहस्य फलं त्रयम् । यदैतन्नियतं भावि तदा विग्रहमाचरेत् ॥ ३१३ ॥ गुरु वित्तं ततो मित्रं तस्माद् भूमिर्गरीयसी । भूमेर्विभूतयः सर्वास्ताभ्यो बन्धुसुहृद्गणाः ॥ ३२३ ॥

उपनामि उपनमनशीलं दैवं सुव्यक्तमुपलक्षितं स्वल्पेनापि पौरुषेण बहु- शोऽप्रतिहतार्थसिद्धिदर्शनाद् । विपरीतम् अनुपनामि ॥ २९३ ॥ दृढभक्तय इति । तत्र स्थिरस्नेहत्वान्मित्रं, शत्रोः पार्ष्णि गृह्णातीति आक्रन्दः (विजिगीषुः पार्ष्णिग्राहमरिमित्रमित्रेणाक्रन्दितः १ ) तस्य पार्ष्णिं गृह्णाति आसारश्च विजिगीषुमित्रमरिमित्रमित्रस्येति । परस्य विपरीता अदृढभक्तित्वात् । शत्रुमित्रं विजिगीषोः पाणि न गृह्णाति तदासारश्चारिमित्रं विजिगीषुमित्रमित्रस्येति ॥ ३०३ ॥ नियतं भावीति । समस्तं व्यस्तं चावश्यं भावि ॥ ३१३ ॥ एषां च त्रयाणामन्यतमलाभे पूर्वं पूर्वं लिप्सेतेति दर्शयितुमाह -- गुरु वित्तमित्यादि । ततो मित्रं गुरु । सर्वतोभोगं हि मित्रं लब्धं हिरण्ये ( ननु ? ना) हिरण्येनाप्युपयुज्यते । ननु “मित्रहिरण्यभूमिलाभानामुत्तरोत्तरलाभः श्रेयान्, मित्रहिरण्ये हि भूमिलाभाद् भवतो मित्रं हिरण्यलाभाद्" इत्युक्तं कौटिलीये । सत्यम् । इदमप्युक्तं “यो वा लाभः सिद्धः शेषयोरन्यतरं साधयति *स श्रेयान् ” (कौटि. अर्थ. ७-८ - ११६.) इति । तस्माद् द्वितीयपक्षसन्दर्शनार्थं मित्रं वित्ताद् गुर्वित्यत्रोक्तम् ॥ ३२३ ॥ १. 'ज्जनः' ख.ग. पाठः. २. 'सुतो' क ख ग घ पाठः.

'स श्रेयान्' अयमंशो मुद्रितकौटिलीयार्थशास्त्रे न दृश्यते ।