पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१४६ [दशमः कामन्दकीयनीतिसारे तदात्वायतिसंशुद्धमातिष्ठन्नति वाच्यताम् । साधु लोकद्वयग्राहि विद्वान् कर्म समाचरेत् ॥ २५ ॥ परित्यजेदिमं लोकं नार्थलेशोपलोभितः । परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत् ॥ २६ ॥ इत्यागमप्रमाणत्वात् साधु कल्याणमाचरेत् ॥ २६३ ॥ यदा मन्येत मतिमान् हृष्टं पुष्टं स्वकं बलम् । परस्य विपरीतं च तदा विग्रहमाचरेत् ॥ २७३ ॥ स्फीतं यदानुरक्तं च भवेत् प्रकृतिमण्डलम् । परस्य विपरीतं च तदा विग्रहमाचरेत् ॥ २८३ ॥ नैति वाच्यतां विचक्षण इति । वर्तमानदेहापेक्षया कालद्वयपरिशुद्धि निरूप्य भविष्यद्वर्तमान देहापेक्षया निरूपयन्नाह - साध्वित्यादि । लोकद्वय- ग्राहीति । उभयलोकाविरुद्धमित्यर्थः ॥ २५ ॥ - तत्र वर्तमानकालपरिशुद्धमधिकृत्याह - परित्यजेदिमं लोकमिति । अर्थ- लवतृष्णयापि सहसा विगृह्णता विनाशसम्भवादयं लोकस्त्यक्तो भवति । भविष्यत्कालमधिकृत्याह --- परलोकविरुद्धानीति । अदृष्टविरुद्धानि कर्माणि कुर्वाणं पुत्रमपि परित्यजेत् । स्वयं च न कुर्यादिति सामर्थ्यलब्धम् ॥ २६ ॥ आगमप्रमाणत्वादिति । अस्मिन् विषये आगमः प्रमाणं, प्रत्यक्षादिप्रमा- णानामतीन्द्रियार्थाविषयत्वात् ॥ २६३ ॥ - कदा तर्हि विगृह्णीयाद्, यदा परस्मादधिकमात्मानं पश्येत् । तदेव षड्भिः श्लोकैर्निर्दिशति — यदेत्यादि । दृष्टं पुष्टमिति उत्साहयुक्तम् उपचितं चतुरङ्गबलम् । परस्य विपरीतम् अहृष्टमपुष्टं च ।। २७३ ।। स्फीतमुपचितम् । अनुरक्तं विजिगीषौ । प्रकृतिमण्डलममात्यादिकम् ॥ २८३ '. 'शविलो' क. पाठः. २. 'मूलत' क. पाठः.