पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] पञ्चदर्श प्रकरणम् । अपरिज्ञातवर्येण परेण स्तोभितोऽपि वा । परार्थ स्त्रीनिमित्तं च दीर्घकालं द्विजोत्तमैः ॥ २१ ॥ अकालदैवयुक्तेन बलोह्रत्तसखेन च । तदात्वे फलसंयुक्तमायत्यां फलवर्जितम् ॥ २२ ॥ आयत्या फलसंयुक्तं तदात्वे निष्फलं तथा । इतीमं षोडशविधं न कुर्यादेव विग्रहम् ॥ २३ ॥ तदात्वायतिसंशुद्धमारभेत विचक्षणः । तदात्वायतिशुद्धानि सर्वकर्माणि चिन्तयेत् ॥ २४ ॥ १४५ अपरिज्ञातवीर्येण अन्तस्तत्त्वतोऽपरिच्छिन्नबलेन हि परेण सह विग्रहस्य क्षयादिदोषकरत्वात्। स्तोभितोऽपि वा 'हन्यतां कलिना कलिरिति मन्यमानेनाप- रेणालीक दोषप्रख्यापनात् सन्दीपितोऽपि वा । परार्थम् अनुपकारिणः परस्यार्थेने- त्यर्थः । स्त्रीनिमित्तं सामान्ययोषिदर्थम् । दीर्घकालं दीर्घविग्रहस्य क्षयादिदोषफल- त्वात् । द्विजोत्तमैः प्रकृष्टक्रियादियुक्तैः सह विग्रहो विनाशायैव ॥ २१ ॥ अकालदैवयुक्तेन अकस्माद् दैवसम्पन्नेन लब्धवरत्वात् । बलोद्वृत्तसखेन च शक्त्यभ्यधिकमित्रयुक्तेन । तदात्वे फलसंयुक्तं परदेशविलोपादिलाभाद्, आयत्यां फलवर्जितं शत्रोः सापाश्रयस्यानुच्छेदात् ॥ २२ ॥ आयत्या फलसंयुक्तं मण्डलस्य शत्रोरुच्छेदे विजिगीषोर्मण्डलानुग्राह्य- तालाभात्, तदात्वे निष्फलं देशविलोपादिफलाभावात् ॥ २३ ॥ ननु चास्मिन् वित्रहृद्वये तावद् दोषरहितेन फलेन योगोऽस्ति । तदात्वे आयत्यां चेति विशेषः । अतः कथमिदं न कुर्यादित्याह - तदात्वेत्यादि । संशुद्धमिति । विग्रहो हि क्षयव्ययप्रवासप्रत्यवायहेतुत्वादगत्या क्रियते । स चेत् कालद्वयेऽपि न फलवान्, किं तेनारब्धेन । तथान्यदपि कर्म कालद्वय संशुद्ध मारभेतेत्यनुषङ्गादाह – सर्वकर्माणीति ॥ २४ ॥ १. 'त्याभ्यधिकेन' क ख ग घ पाठः. २. 'शक्त्या' क ख ग घ पाठः. ३. 'दपि का' क ख ग घ पाठ..