पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१४४ दशमः कामन्दकीय नीतिसारे वैरप्रभेदनिपुणैर्वैरं पञ्चविधं स्मृतम् । जातं भूम्युपरोधेन तथा शक्तिविघातजम् ॥ १७ ॥ भूम्यनन्तरजातं च मण्डलक्षोभजं तथा । चतुर्विधं वैरजातं बाहुदन्तिसुतोऽब्रवीत् ॥ १८ ॥ कुलापराधजे प्राहुर्वैरे द्वे एव मानवाः । किञ्चित्फलं निष्फलं च सन्दिग्धफलमेव च ॥ १९ ॥ तदात्वे दोषजननमायत्यां चापि निष्फलम् । [ आयत्यां च तदात्वे च दोषस्ये जननं तथा ॥ २० ॥ दैवस्याचिन्त्यत्वान्मानुषोत्थं पञ्चविधं विरोधकारणं, शेषाणामत्रैवान्तर्भावादिति केचित् । तत्र सपत्नीभवं (?) सापत्नं विभीषणरावणयोरिव, अत्रैकार्थाभिनिवेशजोडअन्तर्गतः, स्त्रीजवास्तुजयोः स्त्रीस्थानापहारजौ, वाग्जाते ज्ञानापहारजावमानसम्भूतौ । अपराधजे च परिशिष्टाश्चतुर्दशान्तर्भूताः । अपराधस्यानेकप्रकारत्वाच्चतुर्विध- मित्यपरः । तत्र भूम्युपरोधजाते स्थानदेशापहारजावन्तर्भूतौ । शक्तिविघातजं मण्डलक्षोभजं च स्वरूपत एवोक्ते, भूम्यनन्तरजाते च परिशिष्टाः पञ्चदशान्तर्भूताः भूम्यनन्तरस्य शत्रोरनेकधापराध्यमानत्वात् । वैरमेव वैरजातं द्रव्यजात- वत् ॥ १६ ॥ १७ ॥ १८ ॥ अन्ये सहजकृत्रिमभेदाद् द्विविधमाहुः । तत्र कुलकोधजे सहजविरोधे एकार्थाभिनिवेशजस्यान्तर्भावः । अपराधजे च कृत्रिमे च परिशिष्टानामिति । देशकालबलोपेतोऽपि विग्रहं कुर्वन् षोडशविधं त्यजेदित्यपवादमाह श्लोकाष्ट- केन । किञ्चित्फलमित्यादि । तदात्वे चायत्यां च स्वल्पफलं निष्फलं सन्दिग्धफलं च न कुर्यादेव । विग्रहमिति वक्ष्यमाणेन प्रतिपदं योज्यम् ॥ १९ ॥ तदात्वे दोषजननमिति । आयत्यां सफलम् । तदात्वे प्रतिकार्य पश्चात्को- पादिदोषकरम् आयत्यां चापि निष्फलम् । तदात्वे दोषस्य जननमिति । आय- त्यां मण्डलकोपादिदोपत्य तदात्वे च पाणिग्राहादिदोषस्य जननम् ॥ २० ॥ १. 'त्यु' क. पाठः. २. 'सज' इति मूलकोशेषु पाठः. ३. 'ति । आयत्यां मण्ड' क- ख-ग-घ. पाठः.