पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] पञ्चदश प्रकरणम् । येन पीडा न जायेत तादृशं तु विचक्षणः । कुर्यादर्थपरित्यागमेकार्थाभिनिवेशजे ॥ १२ ॥ धनापहारजे जातु विरोधं न समाचरेत् । कदाचिद् विग्रहे पुंसां सर्वनाशोऽपि जायते ॥ १३ ॥ दृष्टोपन्यासयुक्तेन सम्प्रदानादिकेन च । महाजनसमुत्पन्नं भेदेन प्रशमं नयेत् ॥ १४ ॥ भूतानुग्रहविच्छेदजातस्यान्तं व्रजेद् वशी । दैवमेव तु दैवोत्थे शमनं साधुसम्मतम् ॥ १५ ॥ मण्डल क्षोभसम्भूतमुपायैः प्रशमं नयेत् । सापत्नं वास्तुजं स्त्रीजं वाग्जातमपराधजम् ॥ १६ ॥ १४३ येन पीडा न जायेतेति । यस्तु परित्यज्यमानः पीडामावहति, तं न परित्यजेत्, तदर्थमेव तस्याभिनिवेशात् ॥ १२ ॥ धनापहारज इति । परेण कोशस्यैकदेशापहाराद् विग्रह उत्पद्यते । तत्र विरोधं न समाचरेत्, क्षान्तिमेव कुर्यात् मा भूत् सर्वनाश इति ॥ १३ ॥ " महाजनसमुत्पन्नमिति मदं निर्दिशति । शौर्याद्यवले पाल्लोकमभिभवतो महाजनविरोधो भवति। तं भेदेन शमयेत् । बहूनां संहतानां भेदसाध्यत्वात् ॥ १४॥ भूतानुग्रहविच्छेदजातस्येति । भूतरक्षणं राज्ञो धर्मः । तस्मिन् परेण विच्छिद्यमानेऽवश्यम्भावी विग्रहः, तस्यान्तं व्रजेद् दुर्बलोऽपि लोकानुग्रहमेव साधयेत्, स्वयमेव वा न भवेदित्यर्थः । दैवोत्थ इति । दैवहेतुके ग्रहोपसृष्टप्रभव इति यावत् । दैवमेव शमनम् अथर्वविहितं कर्म शान्तिकपौष्टिकम् । साधुसम्मतं पुरोहिताभिप्रेतम् ॥ १५ ॥ 1 मण्डलक्षोभसम्भूतमिति । मण्डलं हि प्रकोपयतस्तत्संक्षोभाद विरोध उत्पद्यते । उपायैः सामदानादिभिः । मतान्तरमाह श्लोकत्रयेण । सापत्नमित्यादि । 1 १. 'जाते तु क. पाठः. २. 'शः प्रजा' क. पाठः.