पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१४२ [दशमः कामन्दकीय नीतिसारे अधर्मद्रोहसंयुक्ते मित्रजातेऽप्युपेक्षणम् । आत्मवन्मित्रजाते तु प्राणानपि परित्यजेत् ॥ ९ ॥ अपमानात् तु सम्भूतं मानेन प्रशमं नयेत् । सामपूर्व उपायो वा प्रणामो वाभिमान ॥ १० ॥ रहस्येन प्रयोगेण रहस्यकरणेन वा । विग्रहं शमयेद् धीरो बन्धुनाशसमुद्भवम् ॥ ११ ॥

र्थत्यागेन शमोsभियुञ्जानस्य, यदर्थमयं शक्ति विहन्यात्, तमर्थ त्यजेत् । अथ- वा पराभियोगादभियोगसाध्यार्थसम्प्रदानेन शमः । क्षान्त्या च ज्ञानापहारसम्भूते शमः । तत्र शुष्क विग्रहे बलवतोऽपि क्षान्तिरेव श्रेयसी । सा च क्रोधोपशमस्वभावत्वात् सामरूपैव । उपेक्षणेन च ज्ञानविघातजे शमः । कियन्तं कालं ज्ञानविघातं मे करिष्यतीति बलवानप्युपेक्षेत, न साहसाद् विगृह्णीयात् ॥ ८ ॥ मित्रजात इति मित्रार्थं निर्दिशति । तत्राधार्मिकस्य कृतद्रोहस्य च मित्रस्यार्थादन्येन सहोत्पन्नं विग्रहं बलवानप्युपेक्षेत । आत्मवन्मित्रजाते त्विति । धार्मिकस्य मित्रभोविनश्च मित्रस्यार्थादन्येनोत्पन्ने विग्रहे दुर्बलोऽपि प्राणानपि परित्यजेत् । तथाहि “मित्रगोब्राह्मणार्थेषु सद्यः प्राणान् परित्यजेद्” इति निदर्शनम् ॥ ९ ॥ अपमानात् त्विति । विजिगीषुणा परस्य वाक्पारुष्याद्यपमानात् । मानेन सान्त्वपूर्वेण सत्कारेण । अभिमानज इति मानं निर्दिशति । असाध्येऽभ्युन्नतमनस्कतां दर्शयतो रावणस्येव विग्रह उत्पद्यते । तत्र सामपूर्व उपायः, दानभेदात्मकः प्रणामो वा शमहेतुः । ननु च तवाहमित्यात्मोपनिधानं प्रणामः सामैव । सत्यम् । अभिमानजे प्रधानमात्मोपनिधानमिति दर्शनार्थ पृथङ् निर्देशः ॥ १० ॥ बन्धुनाशसमुद्भवमिति । विजिगीषुणा परस्य बन्धुविनाशाद् विग्रह उत्पद्यते । तत्र दुर्बलश्चेद्, रहस्येन प्रयोगेण सामादीनां चतुर्णामुपांशुप्रयोगेण । रहस्यकरणेन वा मायेन्द्रजालसम्पादनेन शमयेद्, अन्यथानेन मे बन्धुर्हत इति परः परशुराम इव कार्त्तवीर्य नियतमेनं विगृह्णीयात् ॥ ११ ॥ १. 'मानू व' क. पाठः २. 'भावितस्य मि' डच पाठः